SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] देवताधिकरणम् ३२५ स्वयंभुवा। आदौ वेदमयी दिव्या यतस्सर्वाः प्रसूतयः" इति १"सर्वेषां तु स नामानि कर्माणिच पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममें" इति। संस्थाः संस्थानानि रूपाणीति यावत् तथा २" नामरूपंच भूतानां कृत्यानांच प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः" इति । अतो देवादीनां विग्रहवत्त्वेऽपि वैदिकशब्दानामानर्थक्यं, वेदस्यादिमत्त्वंच न प्रसज्यते ॥२७॥ अत एव च नित्यत्वम् । १।३।२८॥ ___यत एवेन्द्रवसिष्ठादिशब्दानां देवर्षिवाचिनां तत्तदाकारवाचित्वं, तत्तच्छब्देन तत्तदर्थस्मृतिपूर्विकाच तत्तदर्थसृष्टिः, तत एव ३ "मन्त्रकृतो वृणीते" "नम ऋषिभ्यो मन्त्रकृद्भयः" ५“अयं सो अग्निरिति विश्वामित्रस्य सूक्तं भवति" इत्यादिभिर्वसिष्ठादीनां मन्त्रकृत्त्वकाण्डकृत्त्वऋषित्वादौ प्रतीयमानेऽपि वेदस्य नित्यत्वमुपपद्यते। एभिरेव ३" मन्त्रकृतो वृणीते” इत्यादिभिर्वेदशब्देस्तत्तत्काण्डसूक्तमन्त्रकृतामृषीणामाकृतिशतयादिकं परामृश्य तत्तदाकारान् तत्तच्छक्तियुक्तांश्च सृष्ट्वा प्रजापतिस्तानेव तत्तन्मन्त्रादिकरणे नियुते। तेऽपि प्रजापतिना आहितशक्तयस्तत्तदनुगुणं तपस्तप्त्वा नित्यसिद्धान्पूर्वपूर्ववसिष्ठादिदृष्टान् तानेव मन्त्रादीननधीत्यैव खरतो वर्णतश्चास्खलितान्पश्यन्ति । अतश्च वेदानां नित्यत्वमेपांच मन्त्रकृत्त्वमुपपद्यते ॥ २८ ॥ अथ स्यात्-नैमित्तिकमलयादिष्विन्द्राद्युत्पत्ती वेदशन्देभ्यः पूर्वपूर्वेन्द्रादिस्मरणेन प्रजापतिना देवादिसृष्टिरुपपद्यतां नामः प्राकृतपलये तु स्रष्टः प्रजापतेर्भूताद्यहङ्कारपरिणामशब्दस्यच विनष्टत्वात्कथं प्रजापतेश्शन्दपूर्विका सृष्टिरुपपद्यते ; कथन्तरां विनष्टस्य वेदस्य नित्यत्वम् । अतो १. २. वि. पु. अं. १. ४. आरण, प्रश्न. ७. अनु. १. पं. १ ॥ म. ५.लो. ६३॥ ३. ५. यजु. का. ५. प्र. २. अनु.३.पं. ३॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy