SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ श्रीशारीरकमीमांसामाग्ये वा न बहूनां यजमानानां यो वै देवताः पूर्वः परिगृहाति स एनायो भूते यजते" इति। अतो विग्रहादिमत्त्वे कर्मणि विरोधः प्रसज्यत इति चेत्, तन-अनेकप्रतिपत्तेर्दर्शनात्-दृश्यतेहि सौभरिप्रभृतीनां शक्तिमतां युगपदनेकशरीरप्रतिपत्तिः ॥ २६ ॥ शब्द इति चेन्नातःप्रभवा प्रत्यक्षानुमानाभ्याम् ॥ १।३।२७॥ विरोध इति वर्तते। मा भूत्कर्माण विरोधोऽनेकशरीरप्रतिपत्तेः। शब्दे तु वैदिके विरोधःप्रसज्यते, अनित्यार्थसंयोगात्। विग्रहवत्त्वे हि सावयवत्वेनेन्द्रादेरर्थस्यानित्यत्वमनिवार्यम् । ततो देवदत्तादिशब्दवदिन्द्राद्यर्थजन्मनः प्राग्विनाशार्ट्सचेन्द्रादिशब्दानां वैदिकानामर्थशून्यत्वमनित्यत्वं वा वेदस्य स्यादितिचेत्-तन, अतः प्रभवात्-अस्मादिन्द्रादिशब्दादेव पुनःपुनरिन्द्राद्यर्थस्य प्रभवात् । एतदुक्तं भवति-नहि देवदत्तादिशब्दवदिन्द्रादिशब्दा वैदिका व्यक्तिविशेषमाने सङ्केतपूर्वकाः प्रवृत्ताः अपि तु स्वभावत एव गवादिशब्दवदाकृतिविशेषवाचित्वेन । ततश्चैकस्यामिन्द्रव्यक्ती विनष्टायामत एव वैदिकादिन्द्रशब्दान्मनसि विपरिवर्तमानादवगततद्वाच्यभूतेन्द्राधाकारो धाता तदाकारमेवापरमिन्द्रं सृजति ; यथा कुलालो घटशब्दान्मनसि विपरिवर्तमानात्तदाकारमेव घटम्-इति। कथमिदमवगम्यते? प्रत्यक्षानुमानाभ्यां-श्रुतिस्मृतिभ्यामित्यर्थः। श्रुतिस्तावत "वेदेन रूपे व्याकरोत्सतासती प्रजापतिः"इति; तथा २"स भूरिति व्याहरत् स भूमिमसृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजत" इत्यादि । वाचकशब्दपूर्वकं तत्तदर्थसंस्थानं स्मरन् तत्तत्संस्थानविशिष्टं तंतमर्थ सृष्टवानित्यर्थः। स्मृतिरपि ३" अनादिनिधना ह्येषा वागुत्सृष्टा १. अष्ट. २. प्रश्न. ६. अनु. २. पं. ७ ॥ ३, मनु. भ. १. लो. २१ ॥ २. अE, २. प्रम. २. अनु. ४. पं. २२॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy