SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२३ पा. ३.] देवताधिकरणम् प्रमाणान्तराप्राप्तान्गुणान् स्वयमेव बोधयित्वा तैः कर्म प्ररोचयन्तिः गुणविशिष्टं वा प्रकाशयन्ति प्राप्तांश्चानूध तैः प्ररोचनप्रकाशने कुर्वन्ति विरुद्धत्वे तु तद्वाचिभिश्शब्दैरविरुद्धान्गुणान् लक्षयित्वा कुर्वन्ति। कर्मविधेश्च देवताया ऐश्वर्यमपेक्षितमेव । कामिनः कर्तव्यतया कर्म विधीयमानं स्वयं क्षणप्रध्वंसि कालान्तरभाविनः फलस्य वर्गादेस्साधकमपेक्षते । मन्त्रार्थवादयोश्च १"वायुर्वं क्षेपिष्ठा देवता वायुमेव खेन भागधेयेनोपधावति स एवैनं भूतिं गमयति"२“यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात्तदस्मै देवा राधन्ताम्" इत्यादिषु देवतायाः कर्मणाऽऽराधितायाः फलदायित्वं तदनुगुणं चैश्वर्य प्रतीयमानमपेक्षितत्वेन वाक्यार्थे समन्वीयते । देवपूजाभिधायिनो यजिधातोश्च यागाख्यं कर्म स्वाराध्यदेवताप्रधानं प्रतीयते । तदेवं कृत्स्नवाक्यपालोचनया वाक्यादेव विध्यपेक्षितं सर्वमवगतमिति नापूर्वादिकं व्युत्पत्तिसमयानवगतं कर्मविधिष्वभिधेयतया कल्प्यतया वाऽऽश्रयितव्यम्। तथा सङ्कीर्णब्राह्मणमन्त्रार्थवादमूलेषु धर्मशास्त्रेतिहासपुराणेषु ब्रह्मादीनां देवासुरप्रभृतीनां च देहेन्द्रियादयस्वभावभेदाः स्थानानि भोगाः कृत्यानिचेत्येवमादयस्सुव्यक्ताः प्रतिपाधन्ते। अतो विग्रहादिमत्त्वाद्देवानामप्यधिकारोऽस्त्येव ।। २५ ॥ विरोधः कर्मणीति चेन्नानेक प्रतिपत्तेर्दर्शनात् । १।३।२६ ॥ देवादीनां विग्रहादिमत्त्वाभ्युपगमे कर्मणि विरोधः प्रसज्यते,बहुषु यागेषु युगपदेकस्येन्द्रस्य विग्रहवत्त्वे३ "अग्निमग्न आवह" ४"इन्द्रागच्छ हरिव आगच्छ” इत्यादिना आहूतस्य तस्य सन्निधानानुपपत्तेः। दर्शयति चाग्न्यादीनां तत्रतत्रागमनं५ "कस्य वाह देवा यज्ञमागच्छन्ति कस्य १. यजु. काण्ड, २-प्रश्न.१-अनु.१-पं.१॥ ४. यजु, आरण, प्रश्न. १. अनु. १२ ॥ २.अष्ट.प्रश्न.२॥ ३. यजु, अष्ट. ३.प्रश्न.५॥। ५. यजु. का. १.प्रश्न. ६. अनु.७. पं.२१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy