SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२२ श्रीशारीरकमीमांसाभाष्ये [अ. १. ह्मादीनां सकलोपनिषत्सु सृष्टिप्रकरणेषूपासनप्रकरणेषु च श्रूयते । तथाहि १“सदेव सोम्येदमग्र आसीत् " १" तदैक्षत बहु स्यां प्रजायेयेति ततेजोऽ सृजत" इत्यारभ्य सर्वमचेतनं तेजोबनप्रमुखावस्थाविशेषवव्याकृत्य २ “अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि" इति सङ्कल्प्य ब्रह्मादिस्थावरान्तं चतुर्विधं भूतजातं तत्तत्कर्मोचितशरीरं तदुचितनामभाक्चायमकरोदित्युक्तम् । एवं सर्वत्र सृष्टिवाक्येषु देवतिर्य मनुष्यस्थावरात्मना चतुर्विधा सृष्टिराम्नायते। देवादिभेदश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्दशलोकस्थफलभोगयोग्यदेहेन्द्रियादियोगायत्तः, आत्मनां स्वतो देवादित्वाभावात् । तथा ३" तद्धोभये देवासुरा अनुबुबुधिरे ते होचुः...इन्द्रो हवै देवानामभिप्रववाज विरोचनोऽसुराणां तो हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः"४"तो ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः तौ ह प्रजापतिरुवाच" इत्यादिना स्पष्टमेव शरीरेन्द्रियवत्त्वं देवादीनां प्रतीयते।कर्मविधिशेषभूतमन्त्रार्थवादेष्वपि५ "वज्रहस्तः पुरन्दरः" ६" तेनेन्द्रो वज्रमुदयच्छत्" इत्यादिभिः प्रतीयमानं विग्रहादिमत्त्वं प्रमाणान्तराविरुद्धं तत्पमेयमेव । नचानुष्ठेयार्थप्रकाशनस्तुतिपरत्वाभ्यां प्रतीयमानार्थान्तराविवक्षा शक्यते वक्तुम्, स्तुत्याधुपयोगित्वात्तेन विना स्तुत्याउनुपपत्तेश्व। गुणकथनेन हि स्तुतित्वम्।गुणानामसद्भावे स्तुतित्वमेव हीयेत । नचासता गुणेन कथितेन प्ररोचना जायते। अतः कर्म प्ररोचयन्तो गुणसद्भाव बोधयन्त एवार्थवादाः। मन्त्राच कर्मसु विनियुक्तास्तत्रतत्र किश्चित्करत्वायानुष्ठेयमर्थ प्रकाशयन्तो देवतादिगतविग्रहादिगुणविशेषमभिदधत एव तत्र किश्चित्कुर्वन्ति, अन्यथेन्द्रादिस्मृत्यनुपपत्तेः । नच निर्विशेषा देवता धियमधिरोहति । तत्र १. छा, ६-२-१, ३ ॥ ४. छा. ८-७-३ ॥ २. छा. ६-३-२ ॥ ५. अष्टक. २. प्रश्न, ६. अनु. ७. पं. ३४॥ ३. छा. ८-७-२॥ ६. काण्ड. २. प्रश्न, ४. अनु. १२ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy