________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] देवताधिकरणम्
३२१ याणामेवोपासकत्वसम्भावनया मनुष्यानधिकृत्य प्रवृत्तत्वाच्छास्त्रस्य मनुष्यह. दयापेक्षयेदमुक्तम्। स्थितं तावदुत्तरत्र समापयिष्यते ॥२४॥
---(श्रीशारीरकमीमांसाभाष्ये एतद्गर्भे देवताधिकरणम् ॥७॥)-n.
तदुपर्यपि बादरायणस्सम्भवात् । १॥३॥२५॥
परस्य ब्रह्मणोऽङ्गुष्ठममितत्वोपपत्तये मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम् । तत्प्रसङ्गेनेदानी ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्ति नास्तीति विचार्यते । किं तावद्युक्तम् ? नास्ति देवादीनामधिकार इति। कृतः सामर्थ्याभावात्, नह्यशरीराणां देवादीनां विवेकविमोकादिसाधनसप्तकानुगृहीतब्रह्मोपासनोपसंहारसामर्थ्यमस्ति । नच देवादीनां सशरीरत्वे प्रमाणमुपलभामहे । यद्यपि परिनिष्पन्नेऽपि वस्तुनि व्युत्पत्तिसम्भावनया वेदान्तवाक्यानि परे ब्रह्मणि प्रमाणभावमनुभवन्ति; तथापि देवादीनां विग्रहवत्त्वप्रतिपादनपरं न किंचिदपि वाक्यमुपलभ्यते। मन्त्रार्थवादास्तु कर्मविधिशेषतयाऽन्यपरत्वान देवादिविग्रहसाधने प्रमवन्ति । कर्मविधयश्च खापेक्षितोद्देश्यकारकत्वातिरेकि देवतागतं किमपि न साधयन्ति । अतएव तासामर्थित्वमपि न सम्भवति । अतस्सामर्थ्यार्थित्वयोरभावाद्देवादीनामनधिकार इति ॥
----(सिद्धान्तः).... एवं प्राप्ते प्रचक्ष्महे-तदुपर्यपि बादरायणस्सम्भवात्-तदुपर्यपि-तत् ब्रह्मोपासनम्, उपरि-देवादिष्वपि,सम्भवतीति भगवान्बादरायणो मन्यते,तेषामर्थित्वसामर्थ्ययोस्सम्भवात्। अर्थित्वं तावदाध्यात्मिकादिदुर्विषहदुःखाभितापात्परस्मिन्ब्रह्मणि च निरस्तनिखिलदोषगन्धेऽनवधिकातिशयासहधेयकल्याणगुणगणे निरतिशयभोग्यत्वादिज्ञानाच सम्भवति । सामाध्यमपि पडतरदेहेन्द्रियादिमत्तया सम्भवति। देहेन्द्रियादिमखंचव
For Private And Personal Use Only