________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२
शारीरकमीमांसाभाष्ये
[अ. १.
स्मार्तमुदाहृतं भाष्यकारेण - १ " सदा तद्भावभावितः " इति । २ “पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रिया" इति । निर्वचनं - ३ “क्रियावानेष ब्रह्मविदां वरिष्ठः " ४" तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इति च । ५ " सत्यार्जवदयादानाहिंसानभिध्याः कल्याणानि " इति । निर्वचनं– ६" सत्येन लभ्यः " ७" तेषामेवैषःविरजो ब्रह्मलोकः”–इत्यादि । ८" देशकाल वैगुण्याच्छोकवस्त्वाद्यनुस्मृतेश्व तज्जं दैन्यमभास्वरत्वं मनसोऽवसादः " इति । तद्विपर्ययोऽनव। सादः । निर्वचनं - ९ " नायमात्मा बलहीनेन लभ्यः" इति। १० “तद्विपर्य - यजा तुष्टिरुद्धर्षः” इति । तद्विपर्ययोऽनुद्धर्षः । अतिसन्तोषश्च विरोधीत्यर्थः । निर्वचनमपि – ११ " शान्तो दान्तः” इति । एवंनियमयुक्तस्याऽश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति ।।
Acharya Shri Kailassagarsuri Gyanmandir
तथा च श्रुत्यन्तरम् -
विद्ययाऽमृतमश्नुते ||" - इति ॥
* १२ “विद्यां चाविद्यां च यस्तद्वेदोभयँ सह । अविद्या मृत्युं अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म । अविद्यया - कर्मणा । मृत्युं - ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म । तीर्त्वा अपो । विद्यया- ज्ञानेन । अमृतं ब्रह्म । अश्नुते- प्रानोतीत्यर्थः । मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरद्वहितं कर्मैव यथोक्तम्
१३ 46 १. गीता. ८. अ. ६. लो. २. वृत्ति:.
३. मु-उ. ३. मु. १. ख. ४. वा.
४. बृ-उ. ६. अ. ४. बा. २२. वा. ५. वृत्ति:,
इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः ।
६. मु-उ. ३. मु. १. ख. ५. वा. ७. प्रश्न - उ. १. प्रश्न. १५. १६. वा. ८. वृत्तिः,
९. मु-उ. ३. मु. २. ख. ४. वा. १०. वृत्ति:.
११. बृ. उ. ६. अ. ४. वा. २३. वा. १२. ईशा - उ ११. वा.
*विद्यां ब्रह्मोपासनरूपाम् अविद्यां तदङ्गभूतकर्मात्मिकां च एतदुभयं सह वेद अङ्गाङ्गिभावेन सहानुष्ठेयं वेदेत्यर्थः .
१३. विष्णुपुराणे. ६. अंशे. ६. अध्याये, १२ श्लो.
For Private And Personal Use Only