________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिज्ञासाधिकरणम्.
१" नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥
Acharya Shri Kailassagarsuri Gyanmandir
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन! | ज्ञातुं द्रष्टुं च तश्वेन प्रवेष्टुं च परन्तप ! ।। " २" पुरुषस्स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया ।। " इति ॥
१. गीता. ११, अ. ५३, ५४. लो.
२. गी. ८. अ. २२. श्लो.
३. शारीरकमी, ३. अ. ४.पा. २६. सू.
४. शा. ४, अ, १. पा
१२. सू
५. शा. ४. अ. १. पा. ६. शा. ३. अ, ४. पा.
१६. सू. ३३. सु.
५
एवंरूपाया ध्रुवानुस्मृतेस्साधनानि यज्ञादीनि कर्माणीति - ३ " यज्ञादिश्रुतेरश्ववत्" इत्यभिधास्यते । यद्यपि - विविदिषन्तीति यज्ञादयो विविदिषोत्पत्तौ विनियुज्यन्ते, तथाऽपि तस्यैव वेदनस्य ध्यानरूपस्याहर हरनुष्ठीयमानस्याभ्यासाधेयातिशयस्याऽप्रयाणादनुवर्तमानस्य ब्रह्मप्राप्तिसाधनत्वात्तदुत्पत्तये सर्वाण्याश्रमकर्माणि यावज्जीवमनुष्ठेयानि । वक्ष्यति च - ४ " आप्रयाणात्तत्रापि हि दृष्टम् " " अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् " ६" सहकारित्वेन च ” - इत्यादिषु । वाक्यकारथ ध्रुवानुस्मृतेर्विवेकादिभ्य एव निष्पत्तिमाह ७" तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यस्संभवान्निर्वचनाच्च ” – इति । विवेकादीनां स्वरूपं चाऽह ---- “ जात्याश्रयनिमित्तादुष्टादन्नात्कायशुद्धिर्विवेकः” इति । अत्र निर्वचनम् -- ९" आहारशुद्ध सत्त्वशुद्धिस्सच्चशुद्धौ ध्रुवा स्मृतिः"इति । १०" विमोकः कामानभिष्वङ्गः” इति । ११" शान्त उपासीत " इति निर्वचनम् । १२“ आरम्भणसंशीलनं पुनः पुनरभ्यासः" इति । निर्वचनं च
८
७. बोधायनवृत्तिः. ८. वृत्ति:.
९. छा- उ. ७, प्र. २६. ख. २. वा. १०, वृत्ति:.
११. छा- उ. ३, प्र. १४, ख, १. वा. १२, वृत्ति:,
For Private And Personal Use Only
११