________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० शारीरकमीमांसाभाष्ये
[अ. १. दर्शनानिर्वचनाच" इति तस्यैव वेदनस्योपासनरूपस्यासकृदावृत्तस्य ध्रुवानुस्मृतित्वमुपवर्णितम् ॥
सेयं स्मृतिर्दर्शनरूपा प्रतिपादिता । दर्शनरूपता च प्रत्यक्षतापत्तिः। एवं प्रत्यक्षतापन्नामपवर्गसाधनभूतां स्मृति विशिनष्टि-- १"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति । अनेन केवलश्रवणमनननिदिध्यासनानामात्मप्राप्त्यनुपायत्वमुक्त्वा यमेवैष आत्मा वृणुते तेनैव लभ्य इत्युक्तम् । प्रियतम एव हि वरणीयो भवति। यस्यायं निरतिशयप्रियस्स एवास्य प्रियतमो भवति । यथाऽयं प्रियतम आत्मानं प्राप्नोति, तथा खयमेव भगवान् प्रयतत इति भगवतैवोक्त
२"तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥".इति,
३"प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।"इति च ॥
अतस्साक्षात्काररूपा स्मृतिस्स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रिया यस्य, स एव परेणाऽत्मना वरणीयो भवतीति तेनैव लभ्यते पर आत्मेत्युक्तं भवति । एवंरूपा ध्रुवानुस्मृतिरेव भक्तिशब्देनाभिधीयते, उपासनपर्यायत्वाद्भक्तिशब्दस्य । अतएव श्रुतिस्मृतिभिरेवमभिधीयते४" तमेव विदित्वाऽतिमृत्युमेति" ५" तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते",
१. मुण्ड-उ. ३. मु. २. ख. ३. वा. ४. श्वे-उ. ३. अ. ८. वा. २. गीता. १०. अ. १०. श्लो. ३. गी. ७. अ. १७. श्लो.
५. पुरुषसूक्तम्. १७. वा.
For Private And Personal Use Only