________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिशासाधिकरणम्.
निर्णयाय स्वयमेव श्रवणे प्रवर्तते इति श्रवणस्य प्राप्तत्वात् । श्रवणप्रतिष्ठार्थत्वान्मननस्य “मन्तव्यः" इति चानुवादः । तस्माख्यानमेव विधी - यते । वक्ष्यति च - १ " आवृत्ति र सकृदुपदेशात्” इति । तदिदमपवर्गोपाय - तया विधित्सितं वेदनमुपासनमित्यवगम्यते, विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात् - २"मनो ब्रह्मेत्युपासीत इत्यत्र – “ भाति च तपति - " च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद, " ३" न स वेद अकृत्स्त्रो ह्येषः - आत्मेत्येवोपासीत", ४“यस्तद्वेद यत्स वेद स मयैतदुक्तः" इत्यत्र-५" अनुम एतां भगवो देवतां शाधि यां देवतामुपास्से " इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपम् - ६८ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः” इतिध्रुवायास्स्मृतेरपवर्गोपायत्वश्रवणात् । सा च स्मृतिर्दर्शनसमानाकारा
७" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ " इत्यनेनैकार्थ्यात् । एवं च सति ८" आत्मा वा अरे द्रष्टव्यः " - इत्यto निदिध्यासनस्य दर्शनसमानाकारता विधीयते । भवति च स्मृतेर्भावनाप्रकर्षादर्शनरूपता । वाक्यकारेणैतत्सर्व प्रपञ्चितं - ९" वेदनमुपासनं स्यात्तद्विषये श्रवणात्”–इति । सर्वासूपनिषत्सु मोक्षसाधनतया विहितं वेदनमुपासनमित्युक्तम् । १०“ सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात्प्रयाजादिवत्" इति पूर्वपक्षं कृत्वा -- ११ “सिद्धं तूपासनशब्दात्" इति वेदनमसकृदावृत्तं मोक्षसाधनमिति निर्णीतम् । १२ उपासनं स्याद्धुवानुस्मृति
➖➖➖
1
१. शारीर. ४. अ. १. पा. १. सू. २. छा-उ. ३. प्र. १८. ख. १. वा. ३. बृ- उ. ३. अ. ४, बा. ७. वा. ४. छा-उ. ४. प्र. १. ख. ४. वा. ५. छा-उ. ४. प्र. २. ख. २. वा.
2
६. छा-उ. ७. प्र. २६. ख २. वा. ७. मुण्ड- उ. २, मु. २. ख. ८. वा. ८. बृ-उ. ६. अ. ५. बा. ६. वा. ९. १०. ११. १२. बोधायनवृत्ति:.
For Private And Personal Use Only