________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शारीरकमीमांसाभाष्ये
[अ. १.
पत्वेन ज्ञानोत्पयैव निवृत्तत्वात् ज्ञानोत्पत्तावपि मिथ्यारूपायास्तस्या अनिवृत्तौ निवर्तकान्तराभावात् कदाचिदपि नास्या वासनाया निवृत्तिः। वासनाकार्य भेदज्ञानं छिन्नमूलमथ चानुवर्तत इति बालिशभाषितम् । द्विचन्द्रज्ञानादौ तु वाधकसन्निधावपि मिथ्याज्ञानहेतोः परमार्थतिमिरादिदोषस्य ज्ञानबाध्यत्वाभावेनाविनष्टत्वात् मिथ्याज्ञानानुवृत्तिरविरुद्धा | प्रबलप्रमाणबाधितत्वेन भयादिकार्य तु निवर्तते । अपि च भदवासनानिरसनद्वारेण ज्ञानोत्पत्तिमभ्युपगच्छतां कदाचिदपि ज्ञानोत्पत्तिर्न सेत्स्यति ; भेदवासनाया अनादिकालोपचितत्वेनापरिमितत्वात् तद्विरोधिभावनायाश्चाल्पत्वादनया तन्निरसनानुपपत्तेः । अतो वाक्यार्थज्ञानादन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यै - विधित्सितम् । तथा च श्रुतयः - २" विज्ञाय प्रज्ञां कुर्वीत " ३" अनुविद्य विजानाति " ४" ओमित्येवाऽत्मानं ध्यायथ " ५" निचाय्य तं मृत्युमुखात्प्रमुच्यते " ६" आत्मानमेव लोकमुपासीत " ७" आत्मा वा अरे द्रष्टव्यश्रोतव्यो मन्तव्यो निदिध्यासितव्यः " ८" सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः ” – इत्येवमाद्याः ||
>
".
१. मिथ्याज्ञानानिवृत्तिरिति . पा.
२. बृ. उ. ६. अ. ४. बा. २१. वा. ३. छा-उ. ८. प्र. १२. ख. ६. वा. ४. मुण्ड- उ. २. मुण्ड. २. मु. ६. वा.
Acharya Shri Kailassagarsuri Gyanmandir
"
अत्र “ निदिध्यासितव्यः" इत्यादिनैकार्थ्यात् “ अनुविध वि जानाति ” “ विज्ञाय प्रज्ञाङ्कर्वीत " इत्येवमादिभिर्वाक्यार्थज्ञानस्य ध्यानोपकारकत्वात् “ अनुविद्य ” “ विज्ञाय " इत्यन्य “ प्रज्ञाङ्कुर्वीत “ विजानाति " इति ध्यानं विधीयते । “ श्रोतव्यः" इति चानुवादःस्वाध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात्त
।
५. कठ- उ. १. अ. ३. वल्ली. १५. वा.
६. बृ-उ. ३. अ. ४. बा. १५. वा. ७. बृ. उ. ६. अ. ५. वा. ६. वा. ८. छा-उ. ८. प्र. ७. ख. १. वा.
For Private And Personal Use Only