________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . मादिसाधनसम्पत् , इहामुत्रफलभोगविरागः, मुमुक्षत्वं चेत्येतत्साधनचतुष्टयम् । अनेन विना जिज्ञासानुपपत्तेः, अर्थवभावादेवेदमेव पूर्ववृत्तमिति ज्ञायते ।।
एतदुक्तं भवति --- ब्रह्मस्वरूपाच्छादिकाविद्यामूलमपारमार्थिक भेददर्शनमेव बन्धमूलम् । बन्धश्वापारमार्थिकः । स च समूलोऽपारमार्थिकत्वादेव ज्ञानेनैव निवर्त्यते । निवर्तकं च ज्ञानं तत्त्वमस्यादिवाक्यजन्यम् । तस्यैतस्य वाक्यजन्यस्य ज्ञानस्य स्वरूपोत्पत्ती कार्ये वा कर्मणो नोपयोगः। विविदिषायामेव तु कर्मणामुपयोगः। स च पापमूलरजस्तमोनिवर्हणद्वारेण सत्त्वविद्धया भवतीतीममुपयोगमभिप्रेत्य "ब्राह्मणा विदिषन्ति" इत्युक्तमिति ॥
अतः कर्मज्ञानस्यानुपयोगात् उक्तमेव साधनचतुष्टयं पूर्ववृत्तमिति वक्तव्यम् ।
--(लघुसिद्धान्तः )---- अत्रोच्यते यदुक्तमविद्यानिवृत्तिरेव मोक्षः सा च ब्रह्मविज्ञानादेव भवति ॥ इति । तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यविधित्सितं ज्ञानं किंरूपमिति विवेचनीयम्-किं वाक्याद्वाक्यार्थज्ञानमात्रम्,उत तन्मूलमुपासनात्मकं ज्ञानम् इति। न तावद्वाक्यजन्यं ज्ञानं,तस्य विधानमन्तरेणापि वाक्यादेव सिद्धेः; तावन्मात्रेणाविद्यानिवृत्त्यनुपलब्धेश्च । न च वाच्यं-भेदवासनायामनिरस्तायां वाक्यमविद्यानिवर्तकं ज्ञानं न जनयति, जातेऽपि सर्वस्य सहसैव भेदज्ञानानिवृत्तिर्न दोषाय ; चन्द्रकत्वे ज्ञातेऽपि द्विचन्द्रज्ञानानिवृत्तिवत् । अनिवृत्तमपि छिन्नमूलत्वेन न बन्धाय भवति।।--इति, सत्यां सामग्रयां ज्ञानानुत्पत्त्यनुपपत्तेः; सत्यामपि विपरीतवासनायामाप्तोपदेशलिङ्गादिभिर्वाधकज्ञानोत्पत्तिदर्शनात् । सत्यपि वाक्यार्थज्ञाने अनादिवासनया मात्रया भेदज्ञानमनुवर्तत इति भवता न शक्यते वक्तुम् ; भेदज्ञानसामय्या अपि वासनाया मिथ्यारू
For Private And Personal Use Only