________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाष्ये
[अ. १. तद्भवति" १" तद्यथेह कर्मचितो लोकः क्षीयते । एवमेवामुत्र पुण्यचितो लोकः क्षीयते" २" ब्रह्मविदामोति परम्" ३"ब्रह्म वेद ब्रह्मैव भवति" ४" तमेव विदित्वाऽतिमृत्युमेति"-- इत्याद्याः॥
यदपि चेदमुक्तं यज्ञादिकर्मापेक्षा विद्येति । तद्वस्तुविरोधात् श्रुत्यक्षरपालोचनया चान्तःकरणनेमल्यद्वारेण विविदिषोत्पत्तावुपयुज्यते ; न फलोत्पत्तौ, “विविदिषन्ति" इति श्रवणात् । विविदिषायां जातायां ज्ञानोत्पत्तौ शमादीनामेवान्तरणोपायतां श्रुतिरेवाऽह - ५"शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत् "--इति ।।
तदेवं जन्मान्तरशतानुष्ठितानभिसंहितफलविशेषकर्ममृदितकषायस्य विविदिषोत्पत्ती सत्यां ६" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" ७" सत्यं ज्ञानमनन्तं ब्रह्म" "निष्कलं निष्क्रियं शान्तम्" ९" अयमात्मा ब्रह्म" १०" तत्त्वमसि" इत्यादिवाक्यजन्यज्ञानादविद्या निवर्तते। वाक्यार्थज्ञानोपयोगीनि च श्रवणमनननिदिध्यासनानि । श्रवणं नाम वेदान्तवाक्यानि आत्मैकत्वविद्यापतिपादकानीति तत्त्वदर्शिनआचा
न्न्यिाययुक्तार्थग्रहणम् । एवमाचार्योपदिष्टस्यार्थस्य स्वात्मन्येवमेव युक्तमिति हेतुतः प्रतिष्ठापनं मननम् । एतद्विरोध्यनादिभेदवासनानिरसनायास्यैवार्थस्यानवरतभावना निदिध्यासनम् । श्रवणादिभिर्निरस्तसमस्तभेदवासनस्य वाक्यार्थज्ञानमविद्यां निवर्तयतीत्येवंरूपस्य श्रवणस्यावश्यापेक्षितमेव पूर्ववृत्तं ११वक्तव्यम् । तच्च नित्यानित्यवस्तुविवेकः, शमद१. छा-उ. ८. प्र. १. ख. ६. वा.
७. तै-उ. आन. २. अ. १. अनु. १. वा. २. तै-उ. आन. २. अ. १. अनु. १. वा. ८. श्वे-उ. ६. अ. १९. वा. ३. मुण्ड-उ. ३. मुण्ड. २. ख. ९. वा. ९. बृ-उ. ६. अ. ४. ब्रा. ५. वा. ४. श्वे-उ. ३. अ. ८. वा.
१०. छा-उ. ६. प्र. ८. ख. ७. वा. ५. बृ-उ. ६. अ. ४. ब्रा, २३. वा. ११. किमपि ॥ इत्यधिकं कचित्पुस्तके दृश्यते ॥ ६. छा-उ, ६. प्र. २. ख. १. वा.
For Private And Personal Use Only