________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम्. ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥" इति ॥
ज्ञानविरोधि च कर्म पुण्यपापरूपम् । ब्रह्मज्ञानोत्पत्तिविरोधित्वेनानिष्टफलतयोभयोरपि पापशब्दाभिधेयत्वम् । अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वविरोधिरजस्तमोविवृद्धिद्वारेण । पापस्य च ज्ञानोदयविरोधित्वम्-१“एष एवासाधु कर्म कारयति । तं यमधो निनीषति"इति श्रुत्याऽवगम्यते । रजस्तमसोयथार्थज्ञानावरणत्वं,सत्त्वस्य च यथार्थज्ञान हेतुत्वं भगवतैव प्रतिपादितं–२ "सत्त्वात्सञ्जायते ज्ञानम्"इत्यादिना । अतश्च ज्ञानोत्पत्तये पापं कर्म निरसनीयम् । तनिरसनं च अनभिसंहितफलेनानुष्ठितेन धर्मेण । तथा च श्रुतिः-३"धर्मेण पापमपनुदति" इति । तदेवं ब्रह्मप्राप्तिसाधनं ज्ञानं सर्वाश्रमकर्मापेक्षम् । अतोऽपेक्षितर्कर्मस्वरूपज्ञान, केवलकर्मणामल्पास्थिरफलत्वज्ञानं च कर्ममीमांसावसेयमिति , सेवापेक्षिता ब्रह्मजिज्ञासायाः पूर्ववत्ता वक्तव्या ॥
___ अपि च नित्यानित्यवस्तुविवेकादयश्च, मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते,फलकरणेतिकर्तव्यताधिकारिविशेषनिश्चयाइते,कमस्वरूपतत्फलतत्स्थिरत्वास्थिरत्वात्मनित्यत्वादीनां दुरवबोधत्वात् । एषां साधनत्वं च विनियोगावसेयम् । विनियोगश्च श्रुतिलिङ्गादिभ्यः। स च तार्तीयः। उद्गीथायुपासनानि कर्मसमृद्ध्यर्थान्यपि ब्रह्मदृष्टिरूपाणि, ब्रह्मज्ञानापेक्षाणीति इहैव चिन्तनीयानि । तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्योत्पादकानीति तत्साद्गुण्यापादनान्येतानि सुतरामिहैव सङ्गतानि । तेषां च कर्मस्वरूपाधिगमापेक्षा सर्वसम्मता ॥
__ ---(महापूर्वपक्षः )...यदप्याहुः-अशेषविशेषप्रत्यनीकचिन्मानं ब्रह्मैव परमार्थः, तदतिरेकिनानाविधज्ञातृज्ञेयतत्कृतज्ञानभेदादि सर्व तस्मिन्नेव परिकल्पितं १. कौषीतक्या. ३. अध्याये. ९. वा. । ३. तैत्ति. ६. प्रश्न. नारायणे. ५०. अनु. २. गीता. १४. अ. १७. श्लो.
For Private And Personal Use Only