SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] अक्षराधिकरणम्. स्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भववि यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्पैति स कृपणः, अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्मैति स ब्राह्मण "इति यदज्ञानात्संसारप्राप्तिर्यज्ज्ञानाचामृतत्वप्राप्तिस्तदक्षरं परं ब्रह्मैवेति सिद्धम् ॥ ११॥ इति श्रीशारीरकमीमांसाभाष्ये अक्षराधिकरणम् ॥ ३ ॥ वेदान्तसारे-अक्षरमम्बरान्तधृतेः ॥ १" एतद्वैतदक्षरं गार्गि ब्रा ह्मणा अभिवदन्ति अस्थूलमनणु" इत्यादिना अभिहितमक्षरं परं ब्रह्म, अम्बरान्तधृतेः । २'यदूर्व गार्गि दिवः" इत्यारभ्य सर्वविकाराधारतया निर्दिष्ट आकाशः २"कस्मिन्नोतश्च" इति पृष्टे १"एतद्वैतदक्षरम्" इति निर्दिष्टस्याक्षरस्य वायुमदम्बरान्तधृतेः सर्वविकाराधारो ह्ययमाकाशः वायुमदम्बरान्तकारणं प्रधानम् । तद्धारकं परं ब्रह्म ॥९॥ सा च प्रशासनात् ॥ सा धधृतिः, ३"एतस्य वाऽक्षरस्य प्रशासने गार्गि" इत्यादिना प्रकृष्टाशया क्रियमाणा श्रूयते । अत इमक्षरं प्रत्यगात्मा च न भवतीत्यर्थः ॥ १०॥ __ अन्यभावव्याहत्तेश्च ॥ अन्यभावः-अन्यत्वम् , ४'अदृष्टं द्रष्ट' इ. स्यादिना परमात्मनोऽन्यत्वं हास्याक्षरस्य व्यावर्तयति वाक्यशेषः ; अतश्च पर एव ॥ ११ ॥ इति वेदान्तसारे अक्षराधिकरणम् ॥ ३ ॥ वेदान्तदीपे-अक्षरमम्बरान्तधृतेः ॥ वाजिनां गार्गीप्रश्ने १"स हो वाचैतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहखमदीर्घमलोहितमस्नेहमच्छायम्" इत्यत्राक्षरशब्दनिर्दिष्टं प्रधानम् , जीवो वा? उत परमात्मा-इति संशयः । प्रधानम् , जीवो वा, न परमात्मा-इति पूर्वः पक्षः। २"कस्मिनु खल्वाकाश ओतश्च प्रोतश्च' इत्युक्ते, आकाशाधारतयोच्यमा १. कृ. ५.८-८॥ २. ३. ५.८.७॥ ३. बृ. ५-८-९ ॥ ४. बृ. ५-८-११ ॥ । For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy