________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૧૮ श्रीशारीरकमीमांसामान्ये
[अ. १. स्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सरा इति विधृतास्तिष्ठन्ति" इत्यादिना । प्रशासनम्प्रकृष्टं शासनम् । न चेदृशं स्वशासनाधीनसर्ववस्तुविधरणं बद्धमुक्तोमयावस्थस्यापि प्रत्यगात्मनस्सम्भवति । अतः पुरुषोत्तम एव प्रशासित्रक्षरम् ॥१०॥
अन्यभावव्याटतेध।१।३।११॥
अन्यभावः-अन्यत्वम्, प्रधानादिभावः । अस्याक्षरस्य परमपुरुपादन्यत्वं वाक्यशेषे व्यावर्त्यते ? "तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्श्रुतं शोलमतं मन्त्रविज्ञातं विज्ञात नान्यदतोऽस्ति द्रष्टु नान्यदतोऽस्ति श्रोत, नान्यदतोऽस्ति मन्त,नान्यदतोऽस्ति विज्ञात, एतस्मिन्नु खल्वक्षरे गााकाश ओतश्च प्रोतश्च" इति । अत्र द्रष्टुत्वश्रोतृत्वाद्युपदेशादस्याक्षरस्याचेतनभूतप्रधानभावो व्यावय॑ते ; सर्वैरदृष्टस्यैव सतस्सर्वस्य द्रष्टुत्वाद्युपदेशाच प्रत्यगात्मभावो व्यावय॑ते । अत इयमन्यभावव्यावृत्तिरस्याक्षरस्य परमपुरुषतां द्रढयति । एवं वाऽन्यभावव्यावृत्तिः-अन्यस्य सद्भावव्यात्तिरन्यभावव्यावृत्तिः । यथैतदक्षरमन्यैरदृष्टं सदन्येषां द्रष्टु च सत्स्वव्यतिरक्तस्य समस्तस्याधारभूतम् , एवमनेनादृष्टमेतस्य द्रष्टु च सदेतस्याधारभूतमन्यन्नास्तीति वदन् १"नान्यदतोऽस्ति द्रष्टु" इत्यादिवाक्यशेषोऽन्यस्य सद्भावं व्यावर्तयन्नस्याक्षरस्य प्रधानभावं प्रत्यगात्मभावं च प्रतिषेधति । किश्च २"एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दीं पितरोऽन्वायत्ताः" इति श्रीतं स्मात च यागदानहोमादिकं सर्व कर्म यस्याऽज्ञया प्रवर्तते । तदक्षरं परब्रह्मभूतः पुरुषोत्तम एवेति विज्ञायते । अपि च ३“यो वा एतदक्षरं गार्यविदित्वा१. पृ. ५-८-११॥
३. वृ. ५.८-१०॥ २. वृ. ५-८-९ ॥
For Private And Personal Use Only