SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३. ] अक्षराधिकरणम् धारत्वेनोच्यमानमक्षरं नाव्याकृतं भवितुमर्हति - इति । नन्वाकाशशब्दनिर्दिष्टो न वायुमानिति कथमवगम्यते; उच्यते १" यदूर्ध्वं गार्गि दिवो यदवक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आकाश एव तदोतं च प्रोतंच " इत्युक्ते त्रैकाल्यवर्तिनो विकारजातस्याधारतया निर्दिष्ट आकाशो न वायुमदाकाशो भवितुमर्हति; तस्यापि विकारान्तर्गतत्वात् । अतोऽवाकाशशब्दनिर्दिष्टं भूतसूक्ष्ममिति प्रतीयते। ततस्तस्यापि भूतसूक्ष्मस्याधारभूतं किमिति पृच्छयते “कस्मिन्नु खल्वाकाश ओत प्रोतश्च" इति । अतस्तदाधारतया निर्दिश्यमानमक्षरं न प्रधानं भवितुमर्हति ।। Acharya Shri Kailassagarsuri Gyanmandir यत्तु श्रुतिप्रसिद्धात्ममाणान्तरप्रसिद्धं प्रथमं प्रतीयत इति, तन्न, अक्षरशब्दस्यावयवशक्त्या स्वार्थप्रतिपादने प्रमाणान्तरानपेक्षणात्ः सम्बन्धग्रहणदशायामर्थस्वरूपं येन प्रमाणेनावगम्यते, न तत्प्रतिपादनदशायामपेक्षणीयम् ॥ ९ ॥ २९७ एवं तर्ह्यक्षरशब्दनिर्दिष्टो जीवोऽस्तु तस्य भूतसूक्ष्मपर्यन्तस्य कृत्स्नस्याचिद्वस्तुन आधारत्वोपपत्तेः अस्थूलत्वाद्युच्यमानविशेषणोपपत्तेश्व २" अव्यक्तमक्षरे लीयते" ३" यस्याव्यक्तं शरीरं... यस्याक्षरं शरीरं" ४" क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते " इत्यादिषु प्रत्यगात्मन्यप्यक्षरशब्दप्रयोगदर्शनादित्यत्रोत्तरम् - १. बृ. ५-८-७ ॥ २. सुबाल. २ ख ॥ ३. सुबाल, ७ ख ॥ 38 साच प्रशासनात् । १ । ३ । १० ॥ सा चाम्बरान्तधृतिरस्याक्षरस्य प्रशासनादेव भवतीत्युपदिश्यते ५ एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एत ४. गी. १५-१६ ॥ ५. बृ. ५-८-९ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy