________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(श्रीशारीरकमीमांसाभाष्ये अक्षराधिकरणम् ॥ ३ ॥)----
अक्षरमम्बरान्तधृतेः। १।३।९॥
वाजसनेयिनो गार्गीप्रश्ने समामनन्ति १" सहोवाचैतद्वैतदक्षरं गानि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वहखमदीर्घमलोहितमस्नेहमच्छायम्" इत्यादि । तत्र संशयः-किमेतदक्षरं प्रधानम्-जीवो वा-उत परमात्मा-इति। किं युक्तम् ? प्रधानमिति। कुतः १ २" अक्षरात्परतःपर" इत्यादिष्वक्षरशब्दस्य प्रधाने प्रयोगदर्शनादस्थूलत्वादीनां च तत्र समन्वयात् । ३" यया तदक्षरमधिगम्यते" इत्यादिषु परस्मिन्नप्यक्षरशब्दो हश्यत इति चेत्-न,प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयोः प्रमाणान्तरप्रसिद्धस्य प्रथमप्रतीते, प्रतीतपरिग्रहे विरोधाभावात्। ३" यदुवं गार्गि दिवो,यदवाक्पृथिव्याः" इत्यारभ्य सर्वस्य कालत्रितयवर्तिनः कारणभूताकाशा. धारत्वे प्रतिपादिते ३"कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्याकाशस्यापि कारणं तदाधारभूतं किमिति पृष्टे प्रत्युच्यमानमक्षरं सर्वविकारकारणतया तदाधारभूतं प्रमाणान्तरप्रसिद्धं प्रधानमिति प्रतीयते अतोऽक्षर प्रधानम् ॥
(सिद्धान्तः) --- इति प्राप्ते उच्यते-अक्षरमम्बरान्तधृतेः-अक्षरं-परं ब्रह्म कुतः? अम्बरान्तधृतेः; अम्बरस्य-आकाशस्य, अन्तः-पारभूतम् अव्याकृतमम्बरान्तः। तस्य धृतेः तदाधारतयाऽस्याक्षरस्योपदेशादिति यावत् । अयमर्थ:-"कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इत्यत्राकाशशब्दनिर्दिष्टं न वायुमदम्बरम् ,अपितु तत्पारभूतमव्याकृतम् ,अतस्तस्याव्याकृतस्याप्या१. बृ. ५-८-८॥ २. मु. २-१-२॥ ४. कृ. ५-८-७ ॥ ३. मु. १-१.५॥
-
For Private And Personal Use Only