SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९५ पा.३.] भूमाधिकरणम् सादः" इत्यादिश्रुतेः । १" एष तु वा अतिवदति यस्सत्येन" इत्यादिना प्राणशब्दनिर्दिष्टात् प्रत्यगात्मनः ऊर्ध्वमर्थान्तरत्वेन अस्योपदेशात् ॥ ७॥ धर्मोपपत्तेश्च ॥ २“स भगवः कस्मिन् प्रतिष्ठितः...खे महिनि" इत्यादावुपदिष्टानां स्वमहिमप्रतिष्ठितत्वसर्वकारणत्वसर्वात्मकत्वादिधर्माणां परस्मिन्नेवोपपत्तेश्च भूमा परः॥८॥ ___ इंति वेदान्तसारे भूमाधिकरणम् ॥२॥ वेदान्तदीपे-भूमा सम्प्रसादादध्युपदेशात् ॥ छान्दोग्ये २“यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" इत्यत्र भूमशब्दनिर्दिष्टो निरतिशयवैपुल्यविशिष्टसुखखरूपः किं प्रत्यगात्मा? उत परमात्मेति संशयः। प्रत्यगात्मेति पूर्वः पक्षः, ३" तरति शोकमात्मवित्" इति प्रक्रम्य नामादिपरम्परयोत्तरोत्तरभूयस्त्वेन प्रश्नप्रतिवचनाभ्यां प्रवृत्तस्यात्मोपदेशस्य प्राणशब्दनिर्दिष्टे प्रत्यगात्मनि समाप्तिदर्शनात्, प्रत्यगात्मन एव भूमसंशब्दनमिति निश्चीयते । राद्धान्तस्तु--यद्यपि प्रश्नप्रतिवचनाभ्यामुत्तरोत्तरभूयस्त्ववचनं प्राणे पर्यवस्थितम् तथापि प्राणवेदिनोऽतिवादित्वमुक्त्वा, ४"एष तु वा अतिवदति यस्सत्येनातिवदति" इति तुशब्देनोपासकभेदं प्रतिपाद्य, तस्य सत्योपासकस्य पूर्वस्मादाधिक्योपदेशात् , सत्यशब्दाभिधेयं परं ब्रह्मैव भूमविशिष्टमिति। सूत्रार्थस्तु-भूमगुणविशिष्टं परं ब्रह्मैव, सम्प्रसादादध्युपदेशात् ; सम्प्रसादः प्रत्यगात्मा, ५" एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य” इत्याद्युपनिषत्प्रसिद्धेः ; ४" एष तु वा अतिवदति" इति प्रत्यगात्मनोऽधिकतयोपदेशात् । अतिवादित्वं हि स्वोपास्याधिक्यवादित्वम् ॥ ७॥ धर्मोपपत्तेश्च ॥ स्वाभाविकामृतत्वस्वमहिमप्रतिष्ठितत्वसर्वात्मत्वसर्वोत्पत्तिहेतुत्वादीनां भूग्नि श्रूयमाणानां धर्माणां परस्मिन्नेव ब्रह्मण्युपपत्तेश्च भूमा परं ब्रह्मैव ॥ ८॥ इति वेदान्तदीपे भूमाधिकरणम् ॥ २ ॥ १. छा. ७, १६.१॥ २. छा, ७. २४. १॥ । | ३.छा. ७-१-३॥ ४. छा, ७.१६॥ ५. छा. ८.३.४॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy