________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वेदान्तसारे
१. छा. ७. २५.२ ॥
२. छा. ७.२६.१ ॥
३. छा. ७.२२ ॥
४. छा. ७. २३ ॥
२९४
[अ. १.
र्थस्य परमात्मपर्यवसानादहंशब्दोऽपि परमात्मपर्यवसायीति प्रत्यगात्मनरीरकत्वेन परमात्मानुसन्धानार्थोऽयमहङ्ग्रहोपदेशः । परमात्मनस्सर्वशरीरतया सर्वात्मत्वात्प्रत्यगात्मनोऽप्यात्मा परमात्मा । तदेव " अथात आत्मादेशः " इत्यादिना "आत्मैवेदं सर्वम्" इत्यन्तेनोच्यते । एतदेवोपपादयितुं प्रत्यगात्मनोऽप्यात्मभूतात्परमात्मनस्सर्वस्योत्पत्तिरुच्यते २" तस्य हवा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आकाशः" इत्यादिना । उपासकस्यान्तर्यामितयाऽवस्थितात्परमात्मनस्सस्योत्पत्तिरित्यर्थः । अतः परमात्मनः प्रत्यगात्मशरीरकत्वज्ञानप्रतिष्ठार्थमहङ्ग्रहोपासनं कर्तव्यम्। तस्माद्भूमविशिष्टः परमात्मेति सिद्धम् ॥ ८ ॥
इति श्रीशारीरकमीमांसाभाष्ये भूमाधिकरणम् ॥ २ ॥
वेदान्तसारे - भूमा सम्प्रसादादध्युपदेशात् || ३" सुखं त्वेव विजिज्ञासितव्यम्" ४" भूमैव सुखम्" इत्युक्त्वा भूम्नस्वरूपमाह ५' 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ” इति; यस्मिन् सुखेऽनुभूयमाने तद्व्यतिरिक्तं किमपि सुखत्वेन न पश्यति न शृणोति न विजानाति स भूमेत्युच्यते, ५" अथ यत्रान्यत्पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पम् " " इतिवचनात् । तथाच महाभारते ६" दिव्यानि कामचाराणि विमानानि सभास्तथा । आक्रीडा विविधा राजन् पद्मिन्यश्चामलोकाः। एते वै निरयास्तात स्थानस्य परमात्मनः " इति। ७" एष तुवा अतिवदति यस्सत्येनातिवदति" इति प्रस्तुतञ्चातिवादित्वमेवमेव समञ्जसम् । अतिवादित्वं हि खोपास्यपुरुषार्थाधिक्यवादित्वम्, तदल्पम्' इत्यल्पप्रतियोगिवेन, 'भूमा' इत्युक्तप्रकारवैपुल्याथय सुखरूपवाची । अयं भूमशब्दव्यपदिष्टः परमात्माः संप्रसादादध्युपदेशात्-संप्रसादः प्रत्यगात्मा, ८" अथ य एष संप्र
Acharya Shri Kailassagarsuri Gyanmandir
6
५. छा. ७. २४. १ ॥
६. भारते. शान्ति. मोक्ष १९८.४,६. लो॥
७. छा. ७. १६ ॥
८. छा. ८. ३. ४ ॥
For Private And Personal Use Only