SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पा. www.kobatirth.org ३.] भूमाधिकरणम् . चानुसन्धीयमानं जगन्निरतिशयप्रीतये भवत्येव । अतो जगदैश्वर्यविशिष्टमनवाधिकातिशयमुखरूपं ब्रह्मानुभवंस्ततोऽन्यत्किमपि न पश्यति दुःखं च न पश्यति । एतदेवोपपादयति वाक्यशेषः १ स वा एष एवं पश्यनेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दस्स स्वराङ्कवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारों भवति" इति । स्वराट् - अकर्मवश्यः । अन्यराजानः - कर्मवश्याः । तथा २" न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वे ह पश्यः पश्यति सर्वमाप्नोति सर्वशः" इति च । निरतिशय सुखरूपत्वं च ब्रह्मणः ३" आनन्दमयोऽभ्यासात् " इत्यत्र प्रपञ्चितम् । अतः प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनोऽर्थान्तरभूतस्य सत्यशब्दाभिधेयस्य ब्रह्मणो भूमेत्युपदेशाद्भूमा परं ब्रह्म ।। धर्मोपपत्तेश्च । १ । ३ ।८ ॥ अस्य भूम्नो ये धर्मा आम्नायन्ते; तेऽपि परस्मिन्नेवोपपद्यन्ते । ४" एतदमृतम्” इति स्वाभाविकममृतत्वम्, ४ स्त्रे महिम्न" इत्यनन्याधारत्वम्, ५" स एवाधस्तात्" इत्यादि “ स एवेदं सर्वम्" इति सर्वात्मकत्वम्, ६" आत्मतः प्राणः " इत्यादिप्राणप्रभृतिसर्वस्योत्पादकत्वमित्यादयो हि धर्माः परमात्मन एव । यत्तु " अहमेवाधस्तात्" इत्यादिना सर्वात्मकत्वमुपदिष्टम्, तद्भूमविशिष्टस्य ब्रह्मणोऽहङ्घहेणोपासनमुपदिश्यते " अथातोऽहङ्कारादेशः " इत्यहङ्ग्रहोपदेशोपक्रमात् । अहमर्थस्य प्रत्यगात्मनोऽपि ह्यात्मा परमात्मेत्यन्तर्यामिब्राह्मणादिषूक्तम् । अतः प्रत्यग Acharya Shri Kailassagarsuri Gyanmandir १. छा. ७.२५.२ ॥ २. छा. ७.२६, २ || | रामानुजीय पाठः ॥ ३. शारी. १. १. १२ ॥ ४. छा. ७, २४, १ ॥ तदमृतमिति रङ्ग ५. छा. ७. २५. १ ॥ ६. छा. ७, २६.१. ॥ For Private And Personal Use Only २९३ -
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy