________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३००
श्रीशारीरकमीमांसाभाष्ये
[अ. १.
नमक्षरं प्रधानम्, जीवो वा; प्रधानस्य विकाराधारत्वात्, जीवस्याचिद्वस्त्वाधारत्वात् ; न परमात्मा -- इति । राद्धान्तस्तु - १ " यदूर्ध्वं गार्गि दिवः " इत्यारभ्य, कालत्रयवर्तिनः कृत्स्नस्याधारतया निर्दिष्ट आकाशोऽव्याकृतमेव ; न वायुमानाकाशः । ततः पश्चात् १ " कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च" इति पृष्ठे, तदाधारतयोच्यमानमेतदक्षरं न प्रधानं भवितुमर्हति; नापि जीवः २"एतस्यवा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इत्यारभ्य प्रशासनात्सर्वाधारत्वश्रुतेः । सूत्रार्थस्तु - ३" एतद्वैतदक्षरं गार्गि" इति निर्दिष्टमक्षरं परमात्मा, अम्बरान्तधृतेः - अम्बरम् - वायुमानाकाशः, अम्बरान्तः -- अम्बरपारभूतम्, अम्बरकारणमिति यावत् ; कारणापत्तिरेव हि कार्यस्यान्तः । स चाम्बरान्तः अव्याकृतं प्रधानम्, तस्य धृतेः - धारणात् । अव्याकृतस्यापि धृतेरक्षरं परमात्मैवेत्यर्थः ॥ ९ ॥
एवं तर्हि जीवो भवितुमर्हति तस्य प्रधानधृत्युपपत्तेरित्याशङ्कयाह
"
सा च प्रशासनात् । सा च अम्बरान्तधृतिः, २" एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ" इति प्रशासनात् श्रूयते । प्रशासनम् - प्र. कृष्टं शासनम्, अप्रतिहताज्ञा । न चाप्रतिहताज्ञया कृत्स्नस्य चिदचिदात्मकस्य जगतो धृतिर्जीवे उपपद्यते ; अतो न जीवः ॥ १० ॥
अन्यभावव्यावृत्तेश्व ॥ अन्यभावः - अन्यत्वम्, अस्याक्षरस्य परमपुरुषादन्यत्वं व्यावर्तयति वाक्यशेषः, ४'' अदृष्टं द्रष्ट" इत्यादिना सर्वैरदृष्टमेतद्क्षरं सर्वस्य द्रष्टित्यादिप्रधानजीवा सम्भावनीयार्थप्रतिपादनात् ॥ ११ ॥ इति वेदान्तदीपे अक्षराधिकरणम् ॥ ३ ॥
(श्रीशारीरकमीमांसाभाष्ये ईक्षतिकर्माधिकरणम् ॥ ४ ॥ ००
Acharya Shri Kailassagarsuri Gyanmandir
ईक्षतिकर्म व्यपदेशात्सः । १।३।१२ ॥ आथर्वणिकास्सत्यकामप्रश्नेऽधीयते "यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः। यथा पादोदर
१. बृ. ५-८-७ ॥ २. बृ. ५-८.९ ॥ ३. ब्रु. ५-८-८ ॥
४. बृ. ५-८-११ ॥
५. प्रश्न. ५-५॥
For Private And Personal Use Only