SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० श्रीशारीरकमीमांसाभाष्ये [म. १. न प्रत्यभिज्ञा । अतोऽस्यातिवादित्वनिमित्तं सत्यं पूर्वातिवादित्वनिमित्तात्माणादधिकमिति विज्ञायते ॥ ननु च प्राणवेदिन एव सत्यवदनमङ्गत्वेनोपदिष्टम् , अतः प्राणप्रकरणाविच्छेद इत्युक्तम् । नैतद्युक्तम्-तुशब्देन ह्यतिवाद्येवान्यः प्रतीयते, न तु तस्यैवातिवादिनस्सत्यवदनाङ्गविशिष्टतामात्रम् । १“एष तु वा अग्निहोत्री यस्सत्यं वदति" इत्यादिष्वग्निहोत्र्यन्तराप्रतीतेः, प्रतीतस्यैवाग्निहोत्रिणस्सत्यवदनाङ्गविधानमिति क्लिष्टा गतिराश्रीयते ; अत्र त्वतिवाद्यन्तरत्वनिमित्तं सत्यशब्दाभिधेयं परं ब्रह्म प्रतीयते । सत्यशब्दश्च २“सत्यं ज्ञानमनन्तं ब्रह्म"इत्यादिषु परस्मिन्ब्रह्मणि प्रयुक्तः; अतस्तनिष्ठस्यातिवादिनः पूर्वस्मादधिकत्वं सम्भवतीति वाक्यखरससिद्धमन्यत्वं न बाधितव्यम् । अतिवादित्वं हि वस्त्वन्तरात्पुरुषार्थतयाऽतिक्रान्तखोपास्यवस्तुवादित्वम् । नामाद्याशापर्यन्तोपास्यवस्त्वतिक्रान्तस्वोपास्यप्राणशब्दनिर्दिष्टप्रत्यगात्मवादित्वात्माणविदोऽतिवादित्वम् । तस्यापि सातिशयपुरुषार्थत्वानिरतिशयपुरुषार्थतयोपास्यपरब्रह्मवादिन एव साक्षादतिवादित्वमिति ३“एष तु वा अतिवदति यस्सत्येनातिवदति" इत्युक्तम् । सत्येनेतीत्थम्भूतलक्षणे तृतीया; सत्येन परेण ब्रह्मणोपास्येनोपलक्षितो योऽतिवदतीत्यर्थः। अतएवैवं शिष्यः प्रार्थयते ३"सोऽहं भगवस्सत्येनातिवदानि" इति । आचार्यश्च ३"सत्यं त्वेव विजिज्ञासितव्यम्" इत्याह । ४"आत्मतः प्राणः" इति च प्राणशब्दनिर्दिष्टस्याऽत्मन उत्पत्तिरुच्यते। अतः ५“तरति शोकमात्मवित्"इति प्रक्रान्त आत्मा प्राणशब्दनिर्दिष्टादन्य इति गम्यते ॥ । ४. छा. ७. २६.१॥ ५. छा. ७. १, ३॥ २. ते, आन. १. अनु ॥ ३. छा. ७. १६. १ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy