SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] भूमाधिकरणम् २८९ शोकमात्मवित्" इत्युपक्रमाविरोधश्च। अतो भूमगुणविशिष्टः प्रत्यगात्मा, यत एवं भूमगुणविशिष्टः प्रत्यगात्मा, अतएवाहमर्थे प्रत्यगात्मनि १" अहमेवाधस्तादहमुपरिष्टात्" इत्यारभ्य १" अहमेवेदं सर्वम्" इति प्रत्यगात्मनो वैभवमुपदिशति । एवं प्रत्यगात्मत्वे निश्चिते सति तदनुगुणतया वाक्यशेषो नेतव्य इति ॥ ---(सिद्धान्तः)----- __ एवं प्राप्तेऽभिधीयते-भूमा सम्प्रसादादध्युपदेशात्-भूमगुणविशिष्टो न प्रत्यगात्मा ; अपि तु परमात्मा, कुतः ? सम्प्रसादादध्युपदेशात् ; सम्पसादः-प्रत्यगात्मा, २"एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते" इत्युपनिषत्पसिद्धेः। सम्पसादात् प्रत्यगात्मनोऽधिकतया भूमविशिष्टस्य सत्यशब्दाभिधेयस्योपदेशादित्यर्थः । सत्यशब्दाभिधेयं च परं ब्रह्म । एतदुक्तं भवति -यथा नामादिषु प्राणपर्यन्तेषु पूर्वपूर्वाधिकतयोत्तरोत्तराभिधानात्पूर्वेभ्य उत्तरेषामर्थान्तरत्वम्, एवं प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनोऽधिकतया निर्दिष्टस्सत्यशब्दाभिधेयस्तस्मादर्थान्तरभूत एव ; सत्यशब्दनिर्दिष्ट एव भूमेति सत्याख्यं परं ब्रह्मैव भूमेत्युपदिश्यते-इति। तदाह वृत्तिकारः३'भूमा त्वेवेति भूमा ब्रह्म नामादिपरम्परया आत्मन ऊर्ध्वमस्योपदेशात्" इति। प्राणशब्दनिर्दिष्टादधिकतया सत्यस्योपदेशः कथमवगम्यत इति चेत् --" स वा एष एवं पश्यन्नेवं मन्वान एवं विजाननतिवादी भवति" इति प्राणविदोऽतिवादित्वमुक्त्वा ५ "एष तु वा अतिवदति यस्सत्येनातिवदति" इति सत्यवेदित्वेनातिवादिनं तुशब्देन पूर्वस्मादतिवादिनो व्यावर्तयति । अत एव ५"एष तु वा अतिवदति" इत्यत्र प्राणातिवादिनो १. छा. ७.२५. १॥ ४. छा. ७. १५. ४॥ २. छा. ८. १२. २ ॥ ५. छा. ७. १६-१॥ ३. वृत्तिः ॥ 37 For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy