________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. छा. ७. १५. ४ ॥
२. छा, ७, १६ ॥
३. छा. ७. १८ ॥
पा. ३.]
भूमाधिकरणम् .
२९१
यदुक्तम् — 'अस्ति भगवः प्राणाद्भूयः' इति प्रश्नस्य 'अदो वाव प्राणाद्भूयः' इति प्रतिवचनस्यचादर्शनात्प्रक्रान्त आत्मोपदेशः प्राणोपदेशपर्यवसानो गम्यत इति ; तदयुक्तम् ; नहि प्रश्नप्रतिवचनाभ्यामेवार्थान्तरत्वं गम्यते ; प्रमाणान्तरेणापि तत्सम्भवात् । उक्तञ्च प्रमाणान्तरम्। 'अस्ति भगवः प्राणाद्भूयः' इत्यपृच्छतोऽयमभिप्रायः - नामादिष्वा - शापर्यन्तेष्वचेतनेषु पुरुषार्थ भूयस्तया पूर्वपूर्वमतिक्रान्तेष्वप्युत्तरोत्तरेषूपदिष्टेषु तत्तद्वेदिन आचार्येणातिवादित्वं नोक्तम्; प्राणशब्दनिर्दिष्टप्रत्यगात्मयाथात्म्यवेदिनस्तु पुरुषार्थ भूयस्त्वातिशयं मन्वानेन “स वा एष एवं पश्यनेवं मन्वान एवं विजानन्नतिवादी भवति" इति अतिक्रान्तवस्तुवादित्वमुक्तम् । अतोऽत्रैवात्मोपदेश स्समाप्त इति मत्वा शिष्यो भूयो न पप्रच्छ । आचार्यस्त्विदमपि सातिशयं मत्वा निरतिशय पुरुषार्थभूतं सत्यशब्दाभिधेयं परं ब्रह्म २' एष तु वा अतिवदति यस्सत्येनातिवदति" इति स्वयमेवोपचिक्षेप | शिष्योऽपि परमपुरुषार्थ रूपे परस्मिन्ब्रह्मण्युपक्षिप्ते तत्स्वरूपतदुपासनयाथात्म्यबुभुत्सया २" सोऽहं भगवस्सत्येनातिवदानि " इति प्रार्थयामास । ततो ब्रह्मसाक्षात्कारनिमित्तातिवादित्वसिद्धये ब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपासनम् २" सत्यं त्वेव विजिज्ञासितव्यम् " इत्युपदिश्य तदुपायभूतं ब्रह्ममननम् ३" मंतिस्त्वेव विजिज्ञासितव्या " इत्युपदिश्य श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमर्थसिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धाम् ४ श्रद्धा त्वेव विजिज्ञासितव्या" इत्युपदिश्य तदुपायभूतां च तन्निष्ठाम् “निष्ठा त्वेव विजिज्ञासितव्या" इत्युपदिश्य तदुपायभूतां च तदुद्योगप्रयत्न रूपां कृतिमपि ६" कृतिस्त्वेव विजिज्ञासितव्या " इत्युपदिश्य श्रवणाद्युपक्रमरूपकृतिसिद्धये प्राप्यभूतस्य सत्यशब्दाभिहि
४. छ। ७. १९ ॥
५. छा. ७. २० ॥
६. छा. ७. २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only