________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घेदान्तदीपे
[म.१. आप्नोतीति ह्यात्मा? अमृतस्य प्रापकतया सेतुश्च स एव । नाडीसम्बन्धः, बहुधाजायमानत्वञ्च, १"सन्ततं सिराभिस्तु लम्बत्या कोशसन्निभम्" २ "अजायमानो बहुधा विजायते” इत्यादिषु सर्वसमाश्रयणीयत्वायाजहत्स्वभावस्यैव परमात्मनोऽपि दृश्यत इति । सूत्रार्थस्तु-धुपृथिव्यादीनामायतनं परमात्मा खशब्दात् ॥ १॥
मुक्तोपमृप्यव्यपदेशाच्च ॥ ३" तदा विद्वान्पुण्यपापे विधूय निरजनः परमं साम्यमुपैति” ४"तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दि. व्यम्" इति च बन्धान्मुक्तस्य प्राप्यतया व्यपदेशाचायं परमात्मा ॥२॥
नानुमानमतच्छब्दात्माणभृच्च ॥ आनुमानम् अनुमानगम्यं प्रधानम् । यथा तद्वाचिशब्दाभावात्तदिह न गृह्यते; तथा प्राणभृदपीत्यर्थः । अतश्चायं परमात्मा ॥३॥
भेदव्यपदेशात् ।। ५" अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यस्यन्यमीशम्" इत्यादिना जीवाद्भेदेन व्यपदेशाचायं परमात्मा ॥४॥
प्रकरणात् ॥ ६॥ अथ परा यया तदक्षरमधिगम्यते” इत्यादिना परमात्मन एव प्रकृतत्वात् ॥५॥
स्थित्यदनाभ्याश्च ॥ ७ "तयोरन्यः पिप्पलं स्वाद्वत्त्यनननन्यो अभिचाकशीति" इति कर्मफलमनश्नतः परमात्मनो दीप्यमानतया स्थितेः, जीवस्य कर्मपरवशतया तत्फलादनाच, परमात्मनो जीवाद्भेदावगमात् अमृतसेतुधुभ्वाद्यायतनं न जीवः। ८ "अदृश्यत्वादिगुणकः" इत्यनेन परमात्मत्वे स्थापितेऽपि, नाडीसम्बन्धबहुधाजायमानत्वलिङ्गात् , याऽवान्तरप्रकरणविच्छेदशङ्का, सा निराकृता "धुभ्वाद्यायतनम्" इति वैश्वानरस्य त्रैलोक्यशरीरत्वादिना परमात्मत्वनिर्णय इति मध्ये वैश्वानरविद्या निरूपिता ॥ ६॥
इति वेदान्तदीफे द्युम्वाद्यधिकरणम् ॥ १ ॥
१.ते. नारायणे. ६-११॥ २. पुरुषसक्त. २१ ॥ ३. मु. ३-१-३॥ ४. म. ३-२-८॥
५. मु. ३-१-२,श्वे. ४. ७॥ ६. मु. १.१५॥ ७. मु. ३-१-१,वे.४.६॥ ८. शारी. १-२-२२ ॥
For Private And Personal Use Only