SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.३.] शुभ्वायधिकरणम् १ "अमृतस्यैष सेतुः" इति तदेव द्रढयति ; २ "बहुधा जायमानः" इति परत्वं न निवारयति ; ३ "अजायमानो बहुधा विजायते” इति कर्मभिरजायमानस्यैव आश्रितवात्सल्यात् छन्दतो जननं तस्य हि श्रूयते ॥१॥ मुक्तोपमृप्यव्यपदेशाच्च ॥ ४"तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" ५"तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति च पुण्यपापविनिर्मुक्तानां प्राप्यतया व्यपदेशाचायं परः॥२॥ नानुमानमतच्छब्दात्माणभृच्च ॥ यथा न प्रधानमतच्छब्दात्, तथा न प्राणभृदपीत्यर्थः ॥ ३॥ भेदव्यपदेशात् ॥ ६"अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशम्" इत्यादिना प्रत्यगात्मनो भेदेन व्यपदेशाचायं परः॥४॥ प्रकरणात् ॥ ७ “अथ परा यया तदक्षरमधिगम्यते” इत्यादि परस्य हीदं प्रकरणम् ॥५॥ स्थित्यदनाभ्याश्च ॥ ८ "तयोरन्यः पिप्पलं स्वात्ति अनननन्यो अभिचाकशीति" इति जीवस्य कर्मफलादनमभिधाय, अननतो दीप्यमानस्य स्थित्यभिधानाञ्चायं परमात्मा ॥६॥ ___ इति वेदान्तसारे शुभ्वाद्यधिकरणम् ॥ २ ॥ वेदान्तदीपे-शुभ्वाद्यायतनं वशब्दात् ॥ आथर्वणे ९ “यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथाऽत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः" इत्यत्र |पृथिव्यादीनामायतनं किं जीवः! उत परमात्मेति संशयः । जीव इति पूर्वः पक्षः, मनःप्रभृतीन्द्रियाधारत्वश्रुतेः, उत्तरत्र नाडीसम्बन्धात् , जायमानत्वश्रुतेश्च । राद्धान्तस्तु-निरुपाधिकात्मत्वामृतसेतुत्वयोः परमात्मधर्मयोश्श्रवणात्परमात्मैवायम् । सर्व नियन्तृतया १. मु. २-२-५॥ २. मु. २-२-६॥ ६. मु. ३-१-२, श्वे. ४.६॥ ३. पुरुषसूक्ते. २१॥ ७. मु. १-१-५॥ ८. मु.३.१-१,वे.४.६॥ ४. मु. ३.१.३ ॥ ५. मु. ३-२-८॥ । ९. मु. २-२.५ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy