________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
वेदान्तसारे "समाने वृक्षे पुरुषो निमनोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः" इत्यादिभिर्जीवाद्विलक्षणत्वेनायं व्यपदिश्यते। अनीशया भोग्यभूतया प्रकृत्या मुद्यमानश्शोचति जीवः; अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणम् , अस्य ईश्वरस्य महिमानं च निखिलजगनियमनरूपं पश्यति । तदा वीतशोको भवति ॥४॥
प्रकरणात्।१।३।५॥ प्रकरणं चेदं परस्य ब्रह्मण इति २ "अदृश्यत्वादिगुणको धर्मोक्तेः" इत्यत्रैव प्रदर्शितम् । नाडीसम्बन्धबहुधाजायमानत्वमन माणाधारत्वैश्च प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहार्म ॥ ५ ॥
स्थित्यदनाभ्याञ्च । १।३।६॥
३"द्वा सुपणा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं खाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" इत्येकस्य कर्मफलादनम्, अन्यस्य च कर्मफलमनश्नत एव दीप्यमानतया शरीरान्तस्स्थितिमात्र प्रतिपाद्यते । तत्र कर्मफलमनश्नन्दीप्यमान एव सर्वज्ञोऽमृतसेतुस्सर्वोत्मा घुभवाद्यायतनं भवितुमर्हति , न पुनः कर्मफलमदन् शोचन्मत्यगात्मा । अतो शुभ्वाद्यायतनं परमात्मेति सिद्धम् ॥
इति श्रीशारीरकमीमांसाभाष्ये शुभ्वाधिकरणम् ॥ १ ॥
वेदान्तसारे-शुभ्वाद्यायतनं वशब्दात् ॥ ४" यस्मिन्यौः पृथिवी चान्तरिक्षम्" इत्यादौ धुपृथिव्यादीनामायतनम् आधारः परमपुरुषः, १"तमेवैकं जानथाऽत्मानम्" इत्यात्मशब्दात् । निरुपाधिकात्मत्वं हि परमपुरुषस्यैव। १. थे.४-७,मु. ३-१-२ ॥२, शारी.१-२-२२॥ | ३. थे. ४-६, मु.३-१-१॥४.मु.२.२.५॥
For Private And Personal Use Only