________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८३
पा. ३.]
पुभ्वाधधिकरणम् इति । मनःप्रभृतिजीवोपकरणाधारत्वं च सर्वाधारस्य परस्यैवोपपद्यते॥
इतश्च परमपुरुष:मुक्तोपमृप्यव्यपदेशाच्च । १।३।२॥
अयं धुपृथिव्याद्यायतनभूतः पुरुषः संसारबन्धान्मुक्तैरपि प्राप्यतया व्यपदिश्यते "यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" २“यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वानामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" इति । संसारबन्धनाद्विमुक्ता एव हि विधृतपुण्यपापा निरञ्जना नामरूपाभ्यां विनिमुक्ताश्च । पुण्यपापनिबन्धनाचित्संसर्गप्रयुक्तनामरूपभाक्त्वमेव हि संसारः। अतो विधूतपुण्यपानिरञ्जनैः प्रकृतिसंसर्गरहितैः परेण ब्रह्मणा परमं साम्यमापनैः प्राप्यतया निर्दिष्टो द्युपृथिव्यायायतनभूतः पुरुषः परं ब्रह्मैव ॥ २॥
परब्रह्मासाधारणशब्दादिभिः परमेव ब्रह्मेति प्रसाध्य, प्रत्यगात्मासाधारणशब्दाभावाचायं पर एवेत्याहनानुमानमतच्छब्दात्प्राणच्च । १।३।३॥ _यथाऽस्मिन्प्रकरणे प्रतिपादकशब्दाभावात्प्रधानं न प्रतिपाद्यम् । एवं प्राणभृदपीत्यर्थः। अनुमीयत इत्यनुमानं परोक्तं प्रधानमुच्यते , अनुमानप्रमितत्वादानुमानमिति वा; अतच्छब्दात्-तद्वाचिशब्दाभावादित्यर्थः । 'अर्थाभावे यदव्ययम्' इत्यव्ययीभावः ॥ ३ ॥ इतश्चायं न प्रत्यगात्मा
भेदव्यपदेशात् । १॥३॥४॥
१.मु. ३.१-३॥
२.मु.३-२-८॥
For Private And Personal Use Only