________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८२
श्रीशारीरकमीमांसाभाष्ये
मानं जीवधर्म एव । एवं जीवत्वे निश्चिते सति पृथिव्याद्यायतनत्वादिकं यथाकथञ्चित्सङ्गमयितव्यम् — इति ॥
• (सिद्धान्तः ) -
१. मु. २-२-५ ॥
२. पुरुषसू ॥
३. मु. २-२. ७॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं प्राप्ते प्रचक्ष्म - शुभ्वाद्यायतनं स्वशब्दात् - धुपृथिव्यादीनामायतनं परं ब्रह्मः कुतः स्वशब्दात् परब्रह्मासाधारणशब्दात् । १" अमृतस्यैष सेतुः" इति परस्य ब्रह्मणोऽसाधारणशब्दः । २" तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते " इति सर्वत्रोपनिषत्सु स एवामृतत्वप्राप्तिहेतुश्श्रूयते । सिनोतेश्व बन्धनार्थत्वात् सेतुः - अमृतस्य प्रापक इत्यर्थः । सेतुरिव वा सेतुः - नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः-संसारार्णवपारभूतस्यामृतस्यैष प्रतिलम्भक इत्यर्थः । आत्मशब्दश्च निरुपाधिकः परस्मिन्ब्रह्मणि मुख्यवृत्तः, आमोतीति ह्यात्मा; स्वेतरसमस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव सम्भवति । अतस्सोऽपि तस्यैव शब्दः । ३" यस्सर्वज्ञस्सर्ववित्" इत्यादयश्चोपरितनाः परस्यैव ब्रह्मणश्शब्दाः । नाड्याधारत्वं तस्यापि सम्भवति ४' सन्ततं सिराभिस्तु लम्बत्या कोशसन्निभम्" इत्यारभ्य ४ " तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः” इति श्रवणात् । ५" बहुधा जायमानः" इत्यपि परस्मिन् ब्रह्मणि सङ्गच्छते -२ “अजायमानो बहुधा विजायते। तस्य धीराः परिजानन्ति योनिम्" इति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयरूपसंस्थानगुणकर्मसमन्वितः स्वकीयं स्वभावमजहदेव स्वेच्छया बहुधा विजायते परः पुरुष इत्यभिधानात् । स्मृतिरपि ६" अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया "
४. तै. नारायणे. १३. अनु ॥
५. मु. २-२-६ ॥
६. गी. ४-६ ॥
For Private And Personal Use Only
[अ. १.