SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमते रामानुजाय नमः श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये ---(प्रथमाध्याये-तृतीयपादे-झुम्वाद्यधिकरणम् ॥१॥).. द्युभ्वाद्यायतनं स्वशब्दात् । १॥३॥१॥ आथर्वणिका अधीयते १“यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः। तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः" इति । तत्र संशयः-किमयं धुपृथिव्यादीनामायतनत्वेन श्रूयमाणो जीवः, उत परमात्मा-इति । किं युक्तम् ? जीव इति। कुतः-१“अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोऽन्तश्चरते बहुधा जायमानः" इति परस्मिन् श्लोके पूर्ववाक्यप्रस्तुतं पृथिव्याद्यायतनं 'यत्र'इति पुनरपि सप्तम्यन्तेन परामृश्य तस्य नाड्याधारत्वमुक्त्वा, पुनरपि “स एषोऽन्तश्चरते बहुधा जायमानः" इति तस्य बहुधा जायमानत्वं चोच्यते ; नाडीसम्बन्धो देवादिरूपेण बहुधाजायमानत्वं च जीवस्यैव धर्मः। अस्मिन्नपि श्लोके १"ओतं मनस्सह प्राणैश्च सर्वैः" इति प्राणपञ्चकस्य मनसश्चाश्रयत्वमुच्य - १. मु. २-२.५ ,६ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy