SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदान्तदीपे अभिव्यक्तरित्याश्मरथ्यः । १।२।३०॥ १"यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरम्" इति थुप्रभृतिपृ. थिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वमनवच्छिन्नस्य परमात्मनो वै. श्वानरस्य कथमुपपद्यत इत्यत्राह-अनवच्छिन्नस्यैव परमात्मनः उपासनाभिव्यक्स्यर्थ छुप्रभृतिपृथिव्यन्तप्रदेशपरिच्छिन्नत्वमिति आश्मरथ्य आचार्यों मन्यते॥ अनुस्मृतेर्बादरिः। १।२।३१ ॥ धुप्रभृतिप्रदेशावच्छेदेनाभिव्यक्तस्य परमात्मनो शुभ्वादित्यादीनां मूर्धाद्यवयवकल्पनं किमर्थमिति चेत् तत्राह–अनुस्मृतिः-उपासनम् , ब्रह्मप्राप्तये तथोपासनार्थ मूर्धप्रभृतिपादान्तदेहपरिकल्पनमिति बादरिराचार्यो मन्यते ॥ अयं वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्य उपदिश्यते चेत्-२"उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यः" इत्यादिना उपासकशरीरावयवानां गा. हपत्यादिपरिकल्पनं किमर्थमित्यत्राहसम्पत्तेरिति जैमिनिस्तथा हि दर्शयति।।२।३२॥ वैश्वानरविद्याङ्गभूतायाः उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोबत्वसम्पादनाय गार्हपत्यादिपरिकल्पनमिति जैमिनिराचार्यों मन्यते । तथाह्यग्निहोत्रसम्पत्तिमेव दर्शयतीयं श्रुतिः प्राणाहुतिं विधाय,३"अथ य एवं विद्वानग्निहोत्रं जुहोति" इति । उक्तानामर्थानां पूजितत्वख्यापनायाचार्यग्रहणम् ॥ ३२॥ आमनन्ति चैनमस्मिन् । १।२।३३॥ एनं परमपुरुषं वैश्वानरं शुभ्वादिदेहम् , अस्मिन् उपासकदेहे प्राणाग्नि होत्रेणाराध्यत्वाय आमनन्ति हि २ "तस्य ह वा एतस्य वैश्वानरस्य मूर्धेव सुते. जाः" इत्यादिना । उपासकमूर्धादिपादान्ता एव धुप्रभृतयः परमपुरुषस्य मूर्धादय इति प्राणाग्निहोत्रवेलायामनुसन्धेया इत्यर्थः ॥ ३३ ॥ ___इति श्रीवेदान्तदीपे वैश्वानराधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमस्याध्यायस्य द्वितीयः पादः॥ १. छा. ५, १८. १॥ | २. छा. ५-१८-२ ॥ ३. छा. ५-२४-२॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy