SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] २८७ भूमाधिकरणम् (श्रीशारीरकमीमांसाभाष्ये भूमाधिकरणम् ॥२॥)--- भूमा सम्प्रसादादध्युपदेशात् । १।३।७॥ ___ इदमामनन्ति च्छन्दोगाः१“यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यनान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्" इति । अत्रायं भूमशब्दो भावप्रत्ययान्तो व्युत्पाद्यते । तथा हि पृथ्वादिषु बहुशब्दः पठ्यते ततः २ "पृथ्वादिभ्य इमनिज्वा" इति इमनिमत्यये कृते ३" बहोर्लोपो भू च बहोः इति प्रकृतिप्रत्यययोर्विकारे भूमेति भवति । भूमा - बहुत्वमित्यर्थः । अत्र चायं बहुशब्दो वैपुल्यवाची, न सङ्ख्यावाची ; ४“यनान्यत्पश्यति...तदल्पम्" इत्यल्पप्रतियोगित्वश्रवणात् । अल्पशन्दनिर्दिष्टधर्मिप्रतियोगिप्रतिपादनपरत्वादेव धर्मिपरश्च निश्चीयते । न धर्ममात्रपरः। तदेवं भूमेति विपुल इत्यर्थः । वैपुल्यविशेष्यश्वेहात्मेत्यवगतः ५"तरति शोकमात्मवित्" इति प्रक्रम्य भूमविज्ञानमुपदिश्य ६" आत्मैवेदं सर्वम्" इति तस्यैवोपसंहारात् । अत्र संशय्यते-किमयं भूमगुणविशिष्टः प्रत्यगात्मा, उत परमात्मा-इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः? ५"श्रुतं ह्येवमे भगवदशेभ्यस्तरति शोकमात्मवित्" इत्यात्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषूपास्यतयोपदिष्टेषु ७" अस्ति भगवो नाम्नो भूयः" ८ "अस्ति भगवो वाचो भूयः"इत्यादयः प्रश्नाः, ९"वाग्वाव नाम्नो भूयसी" १०"मनो वाव वाचो भूयः" इत्यादीनि च प्रतिवचनानि, प्राणात्माचीनेषु दृश्यन्ते ; १. छा. ७-२४-१॥ । ६. छा. ७. २५. २॥ ७. छा. ७-१-५॥ २. अष्टाध्याय्यां, ५-१-१२२ ॥ ८. छा. ७-२-२॥ . ३. अष्टा. ६-४-१५८ ॥ ९. छा. ७.२-१॥ ४. थाप. १-२-१३ ॥ ५. छा. ७-१-३॥ १०. छा. ७-३.१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy