________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७७
पा. २.]
वैश्वानराधिकरणम् शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेतिचेन्न तथा दृष्टयुपदेशादसम्भवात्पुरुषमपि चैनमधीयते।।२।२७॥
१"स एषोऽग्निर्वैश्वानरः" इति अग्निशब्दसामानाधिकरण्यात् प्राणाहुत्याधारत्वादिभिः २"पुरुषेऽन्तः प्रतिष्ठितम्" इत्यादेश्च नायं परमात्मेति चेत्नैतत् , जाठराग्निशरीरकत्वेनोपास्यत्वोपदेशात् केवलजाठराग्नेः त्रैलोक्यशरी रकत्वाद्यसम्भवाश्च। १"स एषोऽग्निर्वैश्वानरो यत्पुरुषः" इत्येनं वैश्वानरं पुरुषमप्यधीयते वाजिनःनिरुपाधिकपुरुषशब्दश्च परमात्मनि नारायण एव, ३"सहस्रशीर्षम्" इत्यारभ्य,३"विश्वमेवेदं पुरुषः"इत्यादिषु प्रसिद्धः॥ २७ ॥
अत एव न देवता भूतञ्च । १॥२॥२८॥
यतोऽयं वैश्वानरः त्रैलोक्यशरीरः, पुरुषशब्दनिर्दिष्टश्च, ततोऽयं नाग्न्याख्यदेवता, तृतीयमहाभूतञ्च ॥ २८॥
साक्षादप्यविरोधं जैमिनिः।१।२।२९॥
नावश्यमग्निशरीरकत्वेन उपास्यत्वायेदमग्निशब्दसामानाधिकरण्यम् ,भग्रनयनादियोगेन परमात्मन्येवाग्निशब्दस्य साक्षाद्वत्तेस्सामानाधिकरण्याविरोध जैमिनिराचार्यो मन्यते ॥ २९ ॥
अभिव्यक्तरित्याश्मरथ्यः । १॥२॥३०॥
४“यस्त्वेतमेवं प्रादेशमात्रम्' इत्यनवच्छिन्नस्य छुप्रभृतिपरिच्छिन्नत्वम् उपासकाभिव्यक्त्यर्थमिति आश्मरथ्यः ॥ ३० ॥
अनुस्मृतेर्बादरिः।१।२।३१॥ धुप्रभृतिपृथिव्यन्तानां मूर्धादिपादान्तावयवत्वकल्पनं तथाऽनुस्मृत्यर्थब्रह्म प्रतिपत्तय इति बादरिः ॥ ३१ ॥ सम्पत्तेरिति जैमिनि स्तथा हि दर्शयति।।२॥३२॥
५"उर एव वेदिर्लोमानि बर्हिर्हदयं गार्हपत्यः” इत्यादिना उपासकहदयादीनां वेद्यादित्वकल्पनं विद्याभूतायाः प्राणाहुतेः अग्निहोत्रत्वसम्पादनार्थ
१, २॥ ३. पुरुषस ॥ ४. छा. ५-१८-१॥ ५. छा. ५-१८-२॥
For Private And Personal Use Only