SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ वेदान्तसारे [म.१. कशरीरे मूर्धादिपादान्तेषु सम्पादयति । मुर्धेव सुतेजाः-उपासकस्य मूर्धेव परमात्ममूर्धभूता द्यौरित्यर्थः। चक्षुर्विश्वरूपः-आदित्य इत्यर्थः । प्राणः पृथग्वा-वायुरित्यर्थः। सन्देहो बहुल:-उपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाश इत्यर्थः। पृथिव्येव पादौ-अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः। एवमुपासकः स्वशरीरे परमात्मानं बैलोक्यशरीरं वैश्वानरं सन्निहितमनुसन्धाय स्वकीयान्युरोलोमहृदयमनआस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिर्गार्हपत्यान्वाहार्यपचनाहवनीयानग्निहोत्रोपकरणभूतान्परिकल्प्य प्राणाहुतेश्वाग्निहोत्रत्वं परिकल्प्यैवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति १“उर एव वेदिौमानि बहिर्हदयं गाईपत्यः" इत्यादिनोपदिश्यते । अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम् ।। ३३ ।। ___इति श्रीशारीरकमीमांसाभाष्ये वैश्वानराधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य द्वितीयः पादः॥ -..(वेदान्तसारे वैश्वानराधिकरणम् ॥ ६ ॥)..वैश्वानरस्साधारणशब्दविशेषात्। १॥२॥२५॥ २"आत्मानमेवेमं वैश्वानरम्" इत्यादौ वैश्वानरः परमात्मा, जाठराग्न्यादिषु साधारणस्यापि वैश्वानरशब्दस्य अस्मिन्प्रकरणे परमात्मासाधारणैः सर्वात्मकत्वब्रह्मशब्दादिभिर्विशेष्यमाणत्वात् ॥ २५॥ स्मर्यमाणमनुमानं स्यादिति।१।२।२६॥ धुलोकप्रभृति पृथिव्यन्तं रूपम् ३"अग्निर्मूर्धा"इत्यादिषतम् , अत्र प्रत्य. भिज्ञायमानमस्य परमात्मत्वे अनुमानम्-लिङ्गमित्यर्थः ॥२६॥ १. छा, ५-१८-२ ॥ २. छा, ५-११-६॥ ३. मुण्ड. २.१.४ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy