SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ वेदान्तदीपे मिति जैमिनिः।दर्शयति च श्रुतिः-१“य एतदेवं विद्वानग्निहोत्रं जुहोति"इति। एते पक्षास्स्वीकृताः । पूजार्थमाचार्यग्रहणम् ॥ ३२॥ आमनन्ति चैनमस्मिन् । १।२।३३॥ एनम् --- परमात्मानम् , अस्मिन्-उपासितृशरीरे प्राणाहुतिवेलायाम् अनुसन्धानार्थे २"तस्य ह वा एतस्य...मूर्धेव सुतेजाः" इत्यादि आमनन्तिच; उपासकस्य मूर्धादिरेवास्य परमात्मनो मूर्धादिरित्यर्थः ॥ ३३॥ इति श्रीवेदान्तसारे वैश्वानराधिकरणम् ॥ ६ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याध्यायस्य द्वितीयः पादः॥ ___ ---(वेदान्तदीपे वैश्वानराधिकरणम् ॥ ६॥)-.-. वैश्वानरस्साधारणशब्दविशेषात्। १।२।२५॥ छान्दोग्ये ३"आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि" इत्यारभ्य ४“यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इत्यत्र किमयं वैश्वानरः परमात्मेति शक्यनिर्णयः? उत नेति संशयः। अशक्यनिर्णय इति पूर्वः पक्षः, वैश्वानरशब्दस्य जाठराग्नौ, भूततृतीये, देवताविशेषे परमास्मनि च वैदिकप्रयोगदर्शनात् ; अस्मिन् प्रकरणे सर्वेषां लिङ्गोपलब्धेश्च । राद्धान्तस्तु-५"को न आत्मा किं ब्रह्म"इति सर्वेषां जीवानामात्मभूतं ब्रह्म किमिति प्रक्रमात्, उत्तरत्र च, ६"आत्मानं वैश्वानरम्" इति ब्रह्मशब्दस्थाने सर्वत्र वैश्वानरशब्दप्रयोगाश्च वैश्वानरात्मा सर्वेषां जीवानामात्मभूतं परं ब्रह्मेति वि. शायते । सूत्रार्थः--वैश्वानरशब्दनिर्दिष्टः परमात्मा,वैश्वानरशब्दस्यानेकार्थसा. धारणस्याप्यस्मिन्प्रकरणे परमात्मासाधारणविशेषणैस्सर्वात्मत्वादिभिः विशेज्यमाणत्वात् । विशेष्यतइति विशेषः ॥ २५ ॥ स्मर्यमाणमनुमानं स्यादिति।१।२।२६॥ स्मर्यमाणं-प्रत्यभिज्ञायमानम् , अनुमीयतेऽनेनेति अनुमानम् , इतिशब्दः प्रकारवचनः, इत्थं रूपं स्मर्यमाणं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात् । धुप्रभृतिपृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिष्टम् ७"अग्निर्मूर्धा १. छा. ५-२४-२ ॥ २. छा. ५.१८-२ ॥ ४. छा. ५-१८-१ ॥ ५. छा. ५-११-१॥ ३. छा. ५-११-६ ॥ ६. छा. ५-११-२ ॥ ७. मुण्ड. २.१.४॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy