________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
श्रीशारीरकमीमांसामाग्ये भि.१. वैश्वानरे प्रास्यत्"इति,१“स एष वैश्वानरो विश्वरूपः प्राणोऽनिरुदयते" इति च। वाक्योपक्रमादिषूपलभ्यमानान्यपि लिङ्गानि सर्वानुगुणतया नेतुं शक्यानीति ॥
एवं प्राप्तेऽभिधीयते-वैश्वानरस्साधारणशब्दविशेषात्-वैश्वानरः पर एवात्मा, कुतः? साधारणशब्दविशेषात्-विशेष्यत इति विशेष:साधारणस्य वैश्वानरशब्दस्य परमात्मासाधारणैधविशेष्यमाणत्वादित्यर्थः । तथाहि-औपमन्यवादयः पञ्चेमे महर्षयस्समेत्य २“को न आस्मा किं ब्रह्म"इति विचार्य ३“उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम" इत्युद्दालकस्य वैश्वानरात्मविज्ञानमवगम्य तमभ्याजग्मुः। स चोद्दालक एतान्वैश्वानरात्मजिज्ञासूनभिलक्ष्यात्मनश्च तत्राकृत्स्नवेदित्वं मत्वा४"तान् होवाच अश्वपतिर्वै भगवन्तोऽयं केकयस्सम्पतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम" इति । ते चोदालकषष्ठास्तमश्वपतिमभ्याजग्मुः । स च तान्महर्षीन्यथाई पृथगभ्यर्च्य५"न मे स्तेनः"इत्यादिना५"यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि" इत्यन्तेनाऽत्मनो व्रतस्थतया प्रतिग्रहयोग्यता ज्ञापयनेव ब्रह्मविद्भिरपि प्रतिषिद्धपरिहरणीयतां विहितकर्मकर्तव्यतां च प्रज्ञाप्य५“यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भयो दास्यामि वसन्तु भवन्तः" इत्यवोचत् । ते च मुमुक्षवो वैश्वानरमात्मानं जिज्ञासमानास्तमेवात्मानमस्माकं ब्रहीत्यवोचन् । तदेवं २“को न आत्मा किं ब्रह्म" इति जीवात्मनामात्मभूतं ब्रह्म जिज्ञासमानस्तज्ज्ञमन्विच्छ. द्भिवैश्वानरात्मज्ञसकाशमागम्य पृच्छयमानो वैश्वानरात्मा परमात्मेति विज्ञायते, आत्मब्रह्मशब्दाभ्यामुपक्रम्य पश्चात्सर्वत्रात्मवैश्वानरशब्दाभ्यां व्यवहाराच्च ब्रह्मशब्दस्थाने निर्दिश्यमानो वैश्वानरशब्दो ब्रह्मैवा१. प्रश्नो. १-७॥ २. छा. ५-११-१॥ ४. छा. ५-११-४ ॥ १. छा. ५.११-२॥
५. छा. ५-११-५ ॥
For Private And Personal Use Only