SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] वैश्वानराधिकरणम्. २६९ सूत्रार्थस्तु — अदृश्यत्वादिगुणकः परमात्मा, सर्वज्ञत्वादितद्धर्मोक्तेः ॥ २२ ॥ विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ । १ । २ । २३॥ विशिनष्टि हि प्रकरणं प्रधानाद्भूतयोन्यक्षरम् एकविज्ञानेन सर्वविज्ञानादिना ? तथा १" अक्षरात्परतः परः" इति ; अक्षरात् अव्याकृतात् परतो ऽवस्थितात्पुरुषात् पर इति पुरुषाच्चास्य भूतयोन्यक्षरस्य भेदो व्यपदिश्यते । अतश्च न प्रधानपुरुषौ ; अपितु परमात्मैवात्र निर्दिष्टः ॥ २३॥ Acharya Shri Kailassagarsuri Gyanmandir रूपोपन्यासाच्च । १ । १ । २४ ॥ २‘'अग्निर्मूर्धा” इत्यादिना समस्तस्य चिदचिदात्मकस्य प्रपञ्चस्य भूतयो - न्यक्षररूपत्वेनोपन्यासाश्चायमदृश्यत्वादिगुणकः परमात्मा ॥ २४ ॥ इति वेदान्तदीपे अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ ~~~~~~~( श्रीशारीरकमीमांसाभाष्ये वैश्वानराधिकरणम् ।। ६ ।। ) ----- वैश्वानरस्साधारणशब्दविशेषात् । १।२।२५ ॥ इदमामनन्ति च्छन्दोगाः ३" आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि " इति प्रक्रम्य ४ " यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इति । तत्र सन्देहः - किमयं वैश्वानर आत्मा, परमात्मेति शक्यनिर्णयः, उत न- इति । किं प्राप्तम् ? अशक्यनिर्णय इति । कुतः ? वैश्वानरशब्दस्य चतुर्ष्वर्थेषु प्रयोगदर्शनात् – जाठराग्नौ तावत् ५" अयमग्निर्वैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यावदेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति" इति ; महाभूततृतीये च ६" विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमहामकृण्वन्" इति ; देवतायां च “वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः" इति परमात्मनि च " तदात्मन्येव हृदयेऽग्नौ १. मु. २-१-२ ॥ २. मु. २-१-४ ॥ ३. छा. ५-११-६ ॥ ४. छा. ५-१८-१ ॥ ५. बृ. ७-९-१ ॥ ६. ७. यजु. का. १-५-११ ॥ ८. अष्टक ३. प्रश्न- ११ - अनु-८ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy