________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६८
वेदान्तदीपे
[म. २.
योनिं परिपश्यन्ति धीराः " १" अक्षरात् परतः परः " इत्यादौ प्रधानात्प्रत्यगात्मनश्च अर्थान्तरभूतः परमात्मा प्रतिपाद्यते, २" यस्सर्वशस्सर्ववित्" इत्यादिधर्मोक्तेः ॥ २२ ॥
विशेषण भेदव्यपदेशाभ्याञ्च नेतरौ । १।२।२३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एकविज्ञानेन सर्वविज्ञानरूपविशेषणव्यपदेशान्न प्रधानम् १" अक्षरात् परतः परः" इति प्रधानात्परतः प्रत्यगात्मनोऽपि पर इति भेदव्यपदेशात्, न प्रत्यगात्मा च । अथवा सामानाधिकरण्येन परतोऽक्षरात् पञ्चविंशकात् पर इति भेदव्यपदेशः ॥ २३॥
रूपोपन्यासाच्च । १ । २ । २४ ॥
३“अग्निर्मूर्धा” इत्यादिना त्रैलोक्यशरीरोपन्यासाच्च परमात्मा ॥ २४ ॥ इति श्रीवेदान्तसारे अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥
( वेदान्तदीपे अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ ००
१. मु. २-१-२ ॥
२. सु. १-१-९ ॥
अदृश्यत्वादिगुणको धर्मोक्तेः । १ । २ । २२ ॥
आथर्वणे - ४' अथ परा यया तदक्षरमधिगम्यते यत्तददेश्यम्" इत्यारभ्य, ५' यद्भूतयोनिं परिपश्यन्ति धीराः "१" अक्षरात्परतः परः" इत्यादौ किं प्रधानपुरुषौ प्रतिपाद्येते ? उत परमात्मैवेति संशयः । प्रधानपुरुषाविति पूर्वः पक्षः । पृथिव्याद्यचेतनगतदृश्यत्वादीनां प्रतिषेधात्तज्जातीयाचेतनं प्रधानमेव भूतयोन्यक्षरमिति प्रतीयते। तथा "अक्षरात्परतः परः" इति च तस्याधिष्ठाता पुरुष एवेति । राद्धान्तस्तु — उत्तरत्र २" यस्सर्वज्ञ स्सर्ववित्" इति प्रधानपुषयोरसम्भावितं सार्वज्ञ्यमभिधाय २" तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते" इति सवंशात्सत्यसङ्कल्पाज्जगदुत्पत्तिश्रवणात्पूर्वोक्तमदृश्यत्वादिगुणकं भूतयोन्यक्षरम् १" अक्षरात्परतः परः" इति च निर्दिष्टं तदक्षरं परं ब्रह्मैवेति विज्ञायते ।
३. मु. २-१-४॥
४. ५. मु. १-१-५, ६ ॥
For Private And Personal Use Only