SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २. ] अदृश्यत्वादिगुणकाधिकरणम् हितम्" इत्यादिना तस्यैवाक्षरस्याव्याकृतात्परतोऽपि पुरुषात्परभूतस्य परस्य ब्रह्मणः परमव्योम्नि प्रतिष्ठितस्यानवाधिकातिशयानन्दस्वरूपस्य हृदयगुहायामुपासनप्रकारम् उपासनस्य च परभक्तिरूपत्वमुपासीनस्याविद्याविमोकपूर्वकं ब्रह्मसमं ब्रह्मानुभवफलं चोपदिश्योपसंहृतम् । अत एवं विशेषणाद्भेदव्यपदेशाच्च नास्मिन्प्रकरणे प्रधानपुरुषौ प्रतिपाद्येते ॥ २३७ भेदव्यपदेशोऽपि हि ताभ्यां परस्य ब्रह्मणोऽत्र विद्यते । १“दिव्यो मूर्त: पुरुषस्सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमना शुभ्रो यक्षरात्परतः परः" इत्यादिभिः अक्षरादव्याकृतात्परो यस्समष्टिपुरुषः तस्मादपि परभूतोऽदृश्यत्वादिगुणकोऽक्षरशब्दाभिहितः परमात्मेत्यर्थः । अश्नुत इति वा, न क्षरतीति वाऽक्षरम् । तदव्याकृतेऽपि स्वविकारव्यातया वा महदादिवनामान्तराभिलापयोग्यक्षरणाभावाद्वाऽक्षरत्वं कथचिदुपपद्यते ॥ २३ ॥ रूपोपन्यासाच्च । १ । २ । २४ ॥ 266. २" अर्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाविवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा" इतीदृशं रूपं सर्वभूतान्तरात्मनः परमात्मन एव सम्भवति; अतश्च परमात्मा ॥ २४ ॥ इति श्रीशारीरकमीमांसाभाष्ये अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ For Private And Personal Use Only ~ (वेदान्तसारे अदृश्यत्वादिगुणकाधिकरणम् ॥ ५ ॥ ) अदृश्यत्वादिगुणको धर्मोक्तेः । १ । २ । २२ ॥ ३" अथ परा यया तदक्षरमधिगम्यते यत्तददेश्यम्" इत्यारभ्य ४ यद्भुत १. मु. २-१-२. २. मु. २-१-४ ॥ ३. ४, मु. १-१-५-६ ॥
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy