________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.२.] वैश्वानराधिकरणम्.
ર૭૨ भिधत्त इति विज्ञायते; किश्च १“स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" २ “तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतेवं हास्य सर्वे पाप्मानः प्रदूयन्ते" इति च वक्ष्यमाणं वैश्वानरात्मविज्ञानफलं वैश्वानरात्मानं परं ब्रह्मेति ज्ञापयति ॥ २५॥
इतश्च वैश्वानरः परमात्मास्मर्यमाणमनुमानं स्यादिति।१।२।२६॥
युप्रभृति पृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिश्यते । तच्च श्रुतिस्मृतिषु परमपुरुषरूपतया प्रसिद्धम् । तदिह तदेवेदमिति स्मर्यमाणं—प्रत्यभिज्ञायमानं वैश्वानरस्य परमपुरुषत्वे अनुमानलिङ्गमित्यर्थः । इतिशब्दः प्रकारवचनः; इत्थंभूतं रूपं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात् । श्रुतिस्मृतिषु हि परमपुरुषस्येत्थं रूपं प्रसिद्धम् । यथा आथर्वणे ३“अनिर्मूर्धा चक्षुषी चन्द्रसूर्यो दिशश्श्रोत्रे वाग्विताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्यां पृथिवी ह्येष सर्वभूतान्तरात्मा" इति । अग्निरिह झुलोकः, ४"असौ वै लोकोऽग्निः"इति श्रुतेः । स्मरन्ति च मुनयः ५" द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभि चन्द्रसूयौं च नेते । दिशश्श्रोत्रे विद्धि पादो क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता" इति, ६“यस्याग्निरास्य धौमूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्वचर्दिशश्श्रोतं तस्मै लोकात्मने नमः" इति च । इह च धुप्रभृतयो वैश्वानरस्य मूर्धाद्यवयवत्वेनोच्यन्ते । तथा हि-तैरौपमन्यवप्रभृतिभिर्महर्षिभिः ७'आत्मानमेवेमं वैश्वानरं सम्पत्यध्येषि तमेव नो हि" इति पृष्टः केकयस्तेभ्यो वैश्वानरात्मानमुपदिदिक्षुर्विशेषप्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्येतैः किञ्चित् ज्ञातं किश्चिदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशबुभुत्सया तानेकैकं पप्रच्छ । तत्र १"औप१. छा. ५-१८-१॥ २. छा. ५-२४-३ ॥ ५. ६. भारते-शान्तिपर्व-रावधर्म. ३. मु. २.१.४॥ ४. 1. ८.२.९ ॥ ४७-७०॥ ७. छा. ५-११-६॥
For Private And Personal Use Only