________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६४
श्रीशारीरकमीमांसाभाष्ये
[अ. १.
इति भूतयोनेरक्षरस्य सर्वज्ञत्वादिः प्रतिपाद्यते । पश्चात् १" अक्षरात्परतः परः" इति च प्रकृतमदृश्यत्वादिगुणकं भूतयोन्यक्षरं सर्वज्ञमेव परत्वेन व्यपदिश्यते। अतः “अक्षरात्परतः परः" इत्यक्षरशब्दः पश्चम्यन्तः प्रकृतमदृश्यत्वादिगुणकमक्षरं नाभिधत्ते, तस्य सर्वज्ञस्य विश्वयोनेस्सर्वस्मात्परत्वेन तस्मादन्यस्य परत्वासम्भवात् । अतोऽवाक्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते ॥ २२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इतश्च न प्रधानपुरुषौ — विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ । १।२।२३ ॥
१. मुण्ड. २-१-२॥
२. मुण्ड. १-१-१॥
विशिनष्टि हि प्रकरणं - प्रधानाश्च पुरुषाच्च भूतयोन्यक्षरं व्यावर्तयतीत्यर्थः; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादनादिभिः। तथा ताभ्यामक्षरस्य भेदश्च व्यपदिश्यते ? " अक्षरात्परतः परः" इत्यादिना । तथाहि२“ स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह" इति सर्वविद्याप्रतिष्ठाभूता ब्रह्मविद्या प्रक्रान्ता ; परविधैव च सर्वविद्याप्रतिष्ठा ; तामिमां सर्वविद्याप्रतिष्ठां विद्यां चतुर्मुखाथर्वादिगुरुपरम्परयाऽङ्गिरसा प्राप्तां जिज्ञासुः ३" शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति । ब्रह्मविद्यायास्सर्वविद्याश्रयत्वाद्ब्रह्मविज्ञानेन सर्वे विज्ञातं भवतीति कृत्वा ब्रह्मस्वरूपमनेन पृष्टम् ; ४" तस्मै स होवाच द्वे विद्ये वेदितव्ये इति हम यह्मविदो वदन्ति परा चैवापराच" इति । ब्रह्मप्रेप्सुना द्वे विद्ये वेदितव्ये - ब्रह्मविषये परोक्षापरोक्षरूपे द्वे विज्ञाने उपादेये इत्यर्थः । तत्र परोक्षं शास्त्रजन्यं ज्ञानम्, अपरोक्षं योगजन्यम्; तयोर्ब्रह्मप्राप्त्युपाय
३. मुण्ड. १-१-३॥
४. मुण्ड. १-१-४॥
For Private And Personal Use Only