SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६३ पा.२.] अदृश्यत्वादिगुणकाधिकरणम् . रत्र १"अक्षरात्परतः परः" इति। तत्र सन्दिह्यते-किमिहादृश्यत्वादिगुणकमक्षरमक्षरात्परतः परश्च प्रकृतिपुरुषो; अथोभयत्र परमात्मैव-इति। किं प्राप्तम् ? प्रकृतिपुरुषाविति । कुतः ? अस्याक्षरस्य २“अदृष्टो द्रष्टा" इत्यादाविव न द्रष्टुत्वादिश्चेतनधर्मविशेष इह श्रूयते, १“अक्षरात्परतः परः" इति च सर्वस्माद्विकारात्परभूतादक्षरादस्मात्परः क्षेत्रज्ञ समष्टिपुरुषः प्रतिपाद्यते । एतदुक्तं भवति–रूपादिमत्स्थूलरूपाचेतनपृथिव्यादिभूताश्रयं दृश्यत्वादिकं प्रतिषिध्यमानं पृथिव्यादिसजातीयसूक्ष्मरूपाचेतनमेवोपस्थापयति, तच्च प्रधानमेव । तस्मात्परत्वं च समष्टिपुरुषस्यैव प्रसिद्धम् । तदधिष्ठितं च प्रधानं महदादिविशेषपर्यन्तं विकारजातं प्रसूत इति तत्र दृष्टान्ता उपन्यस्यन्ते ३“यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम्" इति । अतोऽस्मिन् प्रकरणे प्रधानपुरुषावेव प्रतिपाद्यते-इति ॥ एवं पाप्ते ब्रूमः-अदृश्यत्वादिगुणको धर्मोक्तेः-अदृश्यत्वादिगुणकोऽक्षरात्परतः परश्च परमपुरुष एव; कुतः ? तद्धर्मोक्तेः ४“यस्सर्वज्ञस्सर्ववित्"इत्यादिना सर्वज्ञत्वादिकास्तस्यैव धर्मा उच्यन्ते ; तथा हि ५"यया तदक्षरमधिगम्यते" इत्यादिना अदृश्यत्वादिगुणकमक्षरमभिधाय ३"अक्षरात्सम्भवतीह विश्वम्"इति तस्माद्विश्वसम्भवं चाभिधाय४"यस्सवैज्ञस्सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते" १. मुण्ड. २-१-२॥ २. बृ. ५-७-२३॥ ३. मुण्ड. १-१-७॥ ४. मुण्ड. १-१-९॥ ५. मुण्ड, १-१-५॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy