SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ श्रीशारीरकमीमांसाभाष्ये [अ. १. क्षात्कारः। स च "पश्यत्यचक्षुः" इत्यादिना परमात्मनोऽप्यस्तिार "नान्योऽतोस्ति द्रष्टा" इति च जीवेनादृष्टान्तर्यामिद्रष्टवत् , अन्तर्यामिणाऽप्यदृष्टद्रष्ट्रन्तरनिषेधपरः । सूत्रार्थः-अधिदेवाधिलोकादिपदचिह्नितेषु वाक्यषु श्रूयमाणोऽन्तर्यामी परमात्मा, सर्वान्तरत्वसर्वाविदितत्वसर्वशरीरकत्वसर्वनियमनसत्मिकत्वामृतत्वादिपरमात्मधर्माणां व्यपदेशात् ॥ १९ ॥ न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च।१।२।२०॥ ___स्मार्त प्रधानम् , शारीरः प्रत्यगात्मा। स्मार्त च शारीरश्च नान्त मी, तयोरसम्भावितोक्तधर्माभिलापात् । यथा स्मार्तस्याचेतनस्यासंभावनया नान्तर्यामित्वप्रसक्तिः, तथा प्रत्यगात्मनोऽपीत्यर्थः ॥ २० ॥ उभयेऽपि हि भेदेनैनमधीयते। १॥२॥२१॥ उभये काण्वा माध्यन्दिना अपि, ३“यो विज्ञाने तिष्ठन्' ३'य आत्मनि तिष्ठन्" इति यतः प्रत्यगात्मनो भेदेन-एनम् अन्तर्यामिणम् अधीयते ; अतोऽयं तदतिरिक्तः परमात्मा ॥ २१ ॥ ___ इति वेदान्तदीपे अन्तर्याम्यधिकरणम् ॥ ४ ॥ -..(श्रीशारीरकमीमांसाभाष्ये अदृश्यत्वादिगुणकाधिकरणम्।।)..... अदृश्यत्वादिगुणको धर्मोक्तेः । १।२।२२॥ आथर्वणिका अधीयते-४“अथ परा यया तदक्षरमधिगम्यते । यत्तदद्वेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भतयोनि परिपश्यन्ति धीराः"इति; तथोत्त १. श्वे. ३-१९॥ २. बु. ५-७-२३॥ । । ३. बृ.५-७-२२॥ ४. मुण्ड, १-१-५,६॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy