________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २. ]
अन्तर्याम्यधिकरणम्.
१" यः पृथिव्यां तिष्ठन् " इत्यादिषु अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी परमपुरुषः, सर्वान्तरत्व सर्वाविदितत्व सर्वशरीरकत्वसर्वनियन्तृत्वादिपरमात्मधर्मव्यपदेशात् ॥ १९ ॥
२६१
न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च।१।२।२०॥
1
नायं प्रधानं जीवश्च तयोरसम्भावितसर्वाविदितत्वादिधर्माभिलापात् असम्भावनया यथा न स्मार्तम्, तथा जीवोऽपीत्यर्थः ॥ २० ॥
उभयेऽपि हि भेदेनैनमधीयते । १।२।२१ ॥
उभये काण्वा माध्यन्दिनाश्य, २" यो विज्ञाने तिष्ठन् " ३" य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति" इति प्रत्यगात्मनो भेदेन, एनम् अन्तर्यामिणम् अधीयते; अतः पर एवायम् ॥ २१ ॥ इति वेदान्तसारे अन्तर्याम्यधिकरणम् || ४ ||
For Private And Personal Use Only
( वेदान्तदीपे अन्तर्याम्यधिकरणम् ॥ ४ ॥ ) +
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्।१।२।१९॥
इत्या
बृहदारण्यके १" यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः " दिषु सर्वेषु पर्यायेषु श्रूयमाणोऽन्तर्यामी किं प्रत्यगात्मा ? उत परमात्मेति संशयः प्रत्यागात्मेति पूर्वः पक्षः, वाक्यशेषे ४'द्रष्टा श्रोता ...मन्ता" इति द्रछ्रुत्वादिश्रुतेः, ४"नान्योऽतोऽस्ति द्रष्टा” इति द्रष्ट्रन्तरनिषेधाश्च । राद्धान्तस्तु— पृथिव्याद्यात्मपर्यन्तसर्वतत्त्वानां सर्वैः तैरदृष्टेनैकेन नियमनं निरुपाधिकामृतत्वादिकश्च परमात्मन एव धर्म इत्यन्तर्यामी परमात्मा । द्रष्टृत्वादिश्च रूपादिसा१. इ. ५-७-३ ॥ २. . ५-७-२२॥ ३.. ५-७-२२. माध्यन्दिनपाठः । ४.५-७-२३॥