________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
वेदान्तसारे स्मार्त प्रधानम् । शारीरः जीवः। स्माते च शारीरश्च नान्तर्यामी, अतद्धर्माभिलापात्-तयोरसम्भावितधर्माभिलापात्। स्वभावत एव सर्वस्य द्रष्टुत्वम् , सर्वस्य नियन्तृत्वम्, सर्वस्याऽत्मत्वम् , स्वत एवामृतत्वं च तयोर्न सम्भावनागन्धमर्हति । एतदुक्तं भवति-यथा स्मार्तमचेतनं सर्वज्ञत्वनियन्तृत्वसर्वात्मत्वादिकं नार्हति, तथा जीवोऽपि, अतद्धमत्वात्-इति ॥
अमीषां गुणानां परमात्मन्यन्वयः, प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दर्शितः ॥ २० ॥
निरपेक्षं च हेत्वन्तरमाहउभयेऽपि हि भेदेनैनमधीयते। १।२॥२१॥
उभये-माध्यन्दिनाः काण्वाश्च, अन्तर्यामिणो नियाम्यत्वेन वागादिभिरचेतनस्समम् एनं शारीरमपि विभज्याधीयते-१“य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति माध्यन्दिनाः, २" यो विज्ञाने तिष्ठन्" इत्यादि च काण्वाः,परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थः। अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ॥ २१ ॥
इति श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम् ॥ ४ ॥
--(श्रीवेदान्तसारे अन्तर्याम्यधिकरणम् ॥४॥)...अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यप
देशात्। ॥२॥१९॥
१..५-७-२२ ।।
२.अ. ५-७-२२. माध्यन्दिनपाठः।।
For Private And Personal Use Only