SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] अन्तर्याम्यधिकरणम् २५९ न्ते दिव्यो देव एको नारायणः । चक्षुश्च द्रष्टव्यं च नारायणः । श्रोत्रं च श्रोतव्यं च नारायणः" इत्यारभ्य १“अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य. पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीरम्" इत्यादि, १“यस्य मृत्युश्शरीरं यो मृत्युमन्तरे सञ्चरन्यं मृत्युनं वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति परस्यैव ब्रह्मणस्सर्वात्मत्वं सर्वशरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्यते । स्वाभाविकं चामृतत्वं परमात्मन एव धर्मः । न च परस्यात्मनः करणायत्तं द्रष्टत्वादिकम् अपितु स्वभावत एव सर्वज्ञत्वात्सत्यसङ्कल्पत्वाच्च स्वत एव। तथाच श्रुतिः२"पश्यत्यचक्षुस्स शृणोत्यकर्णः अपाणिपादो जवनो ग्रहीता"इतिान च दर्शनश्रवणादिशब्दाश्चक्षुरादिकरणजन्मनो ज्ञानस्य वाचकाः; अपितु रूपादिसाक्षात्कारस्य । सच रूपादिसाक्षात्कारः कर्मतिरोहितस्वाभाविकज्ञानस्य जीवस्य चक्षुरादिकरणजन्मा:परस्यतु खतएव।३"नान्योऽतोऽस्ति द्रष्टा"इत्येतदपि पूर्ववाक्योदितानियन्तुष्टरन्यो द्रष्टा नास्तीति वदति। "यं पृथिवी न वेद"१“यमास्मा न वेद" इत्येवमादिभिर्वाक्यैः पृथिव्यात्मादिनियाम्यैरनुपलभ्यमान एव नियमयतीति यत्पूर्वमुक्तम्, तदेव ३“अदृष्टो द्रष्टा अश्रुतश्श्रोता" इति निगमय्य ३"नान्योऽतोऽस्ति द्रष्टा" इत्यादिना तस्य नियन्तुनियन्त्रन्तरं निषिध्यते। ४“एष त आत्मा" *"स त आत्मा" इति च त इति व्यतिरेकविभक्तिनिर्दिष्टस्य जीवस्यात्मतयोपदिश्यमानोऽन्तर्यामी न प्रत्यगात्मा भवितुमर्हति ॥ १९॥ न च स्मार्तमतद्धर्माभिलापाच्छारीरश्चा१॥२॥२०॥ १. सुबाल. ७. खा ३. बृ. ५-७-२३॥ २, श्वे. ३-१९॥ । ४. . ५-७ : *माध्यन्दिनपाठः ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy