________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
श्रीशारीरकर्मामांसाभाष्ये र्यायः । १“स त आत्माऽन्तर्याम्यमृतः" इति च विशेषः। तत्र संशय्यते -किमयमन्तर्यामी प्रत्यगात्मा, उत परमात्मा-इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? वाक्यशेषेर "द्रष्टा श्रोता" इति करणायत्तज्ञानताश्रुतेः । एवं द्रष्टुरेवान्तर्यामित्वोपदेशात् , २"नान्योऽतोऽस्ति द्रष्टा" इति द्रष्टन्तरनिषेधाचेति ॥
एवं प्राप्तेऽभिधीयते-अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्-अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्याम्यपहतपाप्मा परमात्मा नारायणः। काण्वपाठसिद्धेभ्योऽधिदैवादिमद्भयो वाक्येभ्योऽधिकान्यधिलोकादिमन्ति वाक्यानि माध्यन्दिनपाठे सन्तीति ज्ञापनार्थमधिदैवाधिलोकादिष्वित्युभयोरुपादानम् । तदेवमुभयेष्वपि वाक्येष्वन्तर्यामी परमात्मेत्यर्थः । कुतः ? तद्धर्मव्यपदेशात् ; परमात्मधर्मो ह्ययम् , यदेक एव सन् सर्वलोकसर्वभूतसर्वदेवादीनियमयतीति । तथा उद्दालकप्रश्नः-३“य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति" इत्युपक्रम्य ३"तमन्तर्यामिणं ब्रूहि" इंति, तस्य चोत्तरम् ४“यः पृथिव्यां तिष्ठन्" इत्यारभ्योक्तम् । तदेतत्सर्वाल्लोकान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान्वेदान् सर्वांश्च यज्ञानन्तः प्रविश्य सर्वप्रकारनियमनम् , सर्वशरीरतेया सर्वस्यात्मत्वं च सर्वज्ञात्सत्यसङ्कल्पात्पुरुषोत्तमादन्यस्य न सम्भवति । तथाहि ५ अन्तः प्रविष्टश्शास्ता जनानाँ सर्वात्मा" ६"तत्सृष्ट्वा। तदेवानुमाविशत्। तदनुपविश्य । सच्च त्यचाभवत्" इत्यादीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वं सर्वस्याऽत्मत्वमित्यादीनि वदन्ति । तथा सुवालोपनिषदि "नैवेह किञ्चनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजाय
१. बृ. ५-७-२३. एषत इति स्थाने सत इ. ति माध्यन्दिनषाठः॥ २. बृ. ५-७-२३॥
३. वृ. ५-७-१॥ ४. बु. ५-७-३॥
५. तै. आरण्य, ११. अनु. २०॥ ६. ते. आन. ६॥ ७. सुबाल. ६. ख।
For Private And Personal Use Only