________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.२] अन्तर्याम्यधिकरणम् .
२५७ अनवस्थितेरसम्भवाच्च नेतरः।१।२।१८॥
परमात्मन इतरः जीवादिकः, तस्याक्षिण नियमेनानवस्थितेः, अमृतत्वसंयद्वामत्वादीनां चासम्भवान्न सोऽक्ष्याधारः॥१८॥
इति वेदान्तदीपे अन्तराधिकरणम् ॥ ३ ॥
--(श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम् ॥४॥)----
१"स्थानादिव्यपदेशाच" इत्यत्र २“यश्चक्षुषि तिष्ठन्" इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति सिद्धं कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम् ? इदानीं तदेव समर्थयतेअन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यप
देशात् । १।२।१९॥ काण्वा माध्यन्दिनाश्च वाजसनेयिनस्समामनन्ति ३“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" इति । एवमम्ब्वनयन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकाकाशतमस्तेजस्सु दैवेषु च सर्वेषु भूतेषु प्राणवाक्चक्षुश्श्रोत्रमनस्त्वग्विज्ञानरेतस्वात्मात्मीयेषु च तिष्ठन्तं तत्तदन्तरभूतं तत्तदवेधं तत्तच्छरीरकं तत्तद्यमयन्तं कश्चिनिर्दिश्य ४"एष त आत्माऽन्तर्याम्यमृतः" इत्युपदिश्यते । माध्यन्दिनपाठे तु४"यस्सर्वेषु लोकेषु तिछन्" "यस्सर्वेषु वेदेषु" ४'यस्सर्वेषु यज्ञेषु" इति च पर्यायाः। ४“यो विज्ञाने तिष्ठन्" इत्यस्य पर्यायस्य स्थाने ४“य आत्मनि तिष्ठन् इति प१. शारी. १-२-१४॥
। ३. १. ५-७-३॥ २... ५-७-१८॥
४... ५-७॥
33
For Private And Personal Use Only