SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ वेदान्तदीपे [भ.२. १"यश्चक्षुषि तिष्ठन्" इत्यादिश्रुत्यन्तरप्रसिद्धरुपपद्यते । साक्षात्कारश्च, तदु पासननिष्ठानां योगिनाम् । सूत्रार्थस्तु-अक्ष्यन्तरः परमात्मा, संयद्वामत्वादीनां गुणानामत्रैवोपपत्तेः॥ १३॥ स्थानादिव्यपदेशाच्च । १।२।१४॥ स्थानं-स्थितिः। परमात्मन एव १"यश्चक्षुषि तिष्ठन्" इत्यादौ रचक्षुषि स्थितिनियमनादीनां व्यपदेशाञ्चायं परमात्मा ॥ १४ ॥ सुखविशिष्टाभिधानादेव च।१।२। १५॥ ३"प्राणो ब्रह्म कं ब्रह्मखं ब्रह्म" इति सुखविशिष्टतया प्रकृतस्य परस्यैव ब्रह्मणोऽश्याधारतया उपास्यत्वाभिधानाचायं परमात्मा । एवकारोऽस्यैव हेतोनैरपेक्ष्यावगमाय ॥१५॥ ३"प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म"इत्यत्र सुखविशिष्टं परमेव ब्रह्माभिहितमिति कथमिदमवगम्यते ? यावता नामादिवत्प्रतीकोपासनमेवेत्याशङ्कयाह अत एव च स ब्रह्म । १।२।१६॥ यतस्तत्र भवभयभीतायोपकोसलाय ब्रह्मस्वरूपजिशासवे ३ "कं च तु खं च न विजानामि” इति पृच्छते ३ “यद्वा व कं तदेव खं यदेव खं तदेव कम्" इत्यन्योन्यव्यवच्छेदकतया अपरिच्छिन्नसुखस्वरूपं ब्रह्मेत्यभिधाय, ३ "प्राणं च हास्मै तदाकाशं चोचुः" इत्युक्तम् । अत एव खशब्दाभिधेयस्स आकाशोऽपरिच्छिन्नसुखविशिष्टं परं ब्रह्मैव ॥ १६॥ श्रतोपनिषत्कगत्यभिधानाच्च । १।२।१७॥ श्रुतोपनिषत्कैः अधिगतपरब्रह्मयाथात्म्यैः ब्रह्मप्राप्तये या गतिरर्चिरादिकाऽधिगन्तव्यतयाऽवगता श्रुत्यन्तरे, तस्याश्चेहाक्षिपुरुषं श्रुतवतोऽधिगन्तव्यतया ४"तेऽर्चिषमेवाभिसम्भवन्ति" इत्यादिनाऽभिधानादक्षिपुरुषः परमात्मा। १. वृ. ५-७-१८॥ २. चक्षुःस्थिति. पा॥ ३. छा. ४-१०-५॥ ४. छा. ४-१५-५॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy