________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] अन्तराधिकरणम्
२५५ सुखविशिष्टाभिधानादेव च। १।२।१५॥
१" कं ब्रह्म खं ब्रह्म' इति पूर्वत्रास्यैव सुखविशिष्टतया अभिधानाचार्य परः ॥ १५॥
अत एव च स ब्रह्म । १।२।१६॥
यतस्तत्र भवभीताय उपकोसलाय ब्रह्मजिज्ञासवे १"कं ब्रह्म खं ब्रह्म" इत्युपदिष्टः १" यद्वा व कं तदेव खम्" इति सुखरूपः; अतस्सुखशब्दाभिधेय आकाशः परमेव ब्रह्म ॥१६॥ श्रुतोपनिषत्कगत्यभिधानाच्च । १॥२॥१७॥
श्रुतब्रह्मस्वरूपाणामधिगन्तव्याया अर्चिरादिगतेरक्षिपुरुषं श्रुतवते२ "तेऽ. र्चिषमेवाभिसम्भवन्ति" इत्यादिनाऽभिधानाचायं परमपुरुषः ॥ १७ ॥
अनवस्थितेरसम्भवाच्चनेतरः । १॥२॥१८॥
परस्मादितरो जीवादि श्याधारः, चक्षुषि नियमेन अनवस्थितेः अमृतत्वाद्यसम्भवाच ॥१८॥
इति वेदान्तसारे अन्तराधिकरणम् ॥ ३ ॥
-
... (वेदान्तदीपे अन्तराधिकरणम् ॥ ३ ॥)...
अन्तर उपपत्तेः।१।२।१३॥ छान्दोग्ये३'य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म' इत्यत्राक्ष्याधारः पुरुषः किं प्रतिबिम्बात्मजीवदेवताविशेषान्यतमः ? उत परमात्मेति संशयः। एण्वन्यतम इति पूर्वः पक्षः। कुतः ? 'य एष दृश्यते' इति प्रसिद्धवत्साक्षात्कारनिर्देशात् । राद्धान्तस्तु-परमात्मैवायमश्याधारः पुरुषः, अक्षिपुरुषसम्बन्धितया श्रूयमाणा हि निरुपाधिकात्मत्वामृ. तत्वाभयत्वब्रह्मत्वसंयद्वामत्वादयः परमात्मन्येवोपपद्यन्ते । प्रसिद्धवनिर्देशश्च
३. छा.४-१५-१॥
१.
छा.४-१०-५॥
२. छा. ४-१५-५॥
For Private And Personal Use Only